Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 94
________________ उपवेश्य प्रस्थितः । भवता श्रेष्ठं जीवनं चितमस्ति खलु !' – सिद्धार्थ उक्तवान्, 'नद्याः समीपेऽवस्थानं प्रत्यहं च तस्यां नौचालनं ह्यवश्यं शोभनं प्रमोदप्रदं च स्यान्ननु !'। मृदुतया नावं प्रेरयन् नाविक ईषत् स्मितवान् कथितवांश्च – 'भवत्कथनानुसारमेतत्त्ववश्यं शोभनमस्ति महोदय !। किन्तु, सर्वं जीवनं सर्वमपि च कार्यं शोभनमेव नास्ति खलु ?' । 'स्यादेव भोः !, परन्तु मम भवतो भवदीयकार्यस्य चेा भवति' । 'अहो ! एवं वा । परं सद्य एवेतो भवतो रुचिः क्षीणा भविष्यति । यत एतज्जीवनं कार्यं चैतन्नास्ति महाघवस्त्रधारिणां जनानां कृते' । सिद्धार्थ उच्चैर्हसितवान् । 'प्रागेवाऽद्याऽहं वस्त्राण्यधिकृत्य प्रमाणितोऽस्मि ततश्च सन्देहास्पदं जातोऽस्मि । किं भवान् मे वस्त्राणि स्वीकरिष्यति ? यतस्तान्यधुना मत्कृते क्लेशस्यैव हेतुभूतानि सन्ति । यतश्च मया वक्तव्यमेव भवतो, यन्नदीपारप्रापकाय भवते दानार्थं मत्पार्वे न किञ्चिदपि धनमस्ति' । 'आर्य उपहासं कुर्वन्नस्ति' इति वदन् नाविको हसितवान् । _ 'मित्र ! नाऽहमुपहसामि । भवान् हि पूर्वमप्येकदा मामेतस्या नद्यास्तीरान्तरं प्रापितवान्, निःशुल्कम् । अतः कृपयाऽद्याऽपि तथैव प्रापयतु, अथवा तच्छुल्करूपेण मम वस्त्राणि गृह्णातु' । 'ततः किमार्यो वस्त्रैर्विनैव प्रस्थानमनुवर्तयिष्यते वा ?' - 'मम ततोऽप्यने गन्तुमिच्छैव नाऽस्ति । अहमिच्छामि यद् - भवान् मे कानिचन जीर्णवस्त्राणि दद्याद् मां चाऽत्र भवतः सहायकत्वेन शिष्यत्वेन वा स्थातुमनुमन्येत, यतोऽहं नौचालनं शिक्षितुमिच्छामि' । नाविक आगन्तुकमेनं सूक्ष्मतया सुचिरं निरीक्षितवान् । 'अहं भवन्तं प्रत्यभिजानामि' – अन्ते सोऽकथयत् । 'भवानेकदा मम कुटीरे शयितवान् खलु !। किन्तु तद्धि बहुकालपूर्वमेव घटितम् । प्रायो विंशतिवर्षाणि ततोऽपि वाऽधिको कालो व्यतीतः स्यात् तस्य । अहं भवन्तं नद्यास्तीरान्तरं प्रापितवान्, ततश्चाऽऽवां सुहृदौ भूत्वा वियुक्तावभवताम् । किं भवान् कश्चन श्रमणस्तु नाऽऽसीत् खलु ? अहं भवदभिधानं नैव स्मरामि' । 'मम नाम सिद्धार्थ इत्यस्ति । पुरा यदा भवान् मां दृष्टवान् तदाऽहं श्रमण आसम्' । ___ 'भवतः स्वागतमस्ति सिद्धार्थ ! । ममाऽभिधानं वासुदेव इत्यस्ति । अद्य भवान् मेऽतिथीभूय मत्कुटीरे निवत्स्यसि शयिष्यते चेत्याशासेऽहम् । भवान् कुत आगतोऽस्ति किमर्थं च महाघवस्त्राणां निर्विण्णोऽस्ति - इति भवान् मां कथयिष्यतीत्यप्याशासे' । _एतावता च नौर्नदीमध्यं प्राप्ताऽऽसीत् । इदानीं वासुदेवो जलप्रवाहस्य क्षिप्रत्वात् नौदण्डमपि वेगेन चालयन्नासीत् । स नावः पर्यन्तभागं पश्यन् दृढतयाऽप्यव्याकुलतया नावं चालितवान् । ८५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154