Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 95
________________ नौकायामुपविष्टः सिद्धार्थस्तं नावं चालयन्तं विलोकितवान् स्मृतवांश्च यत् - कथं स एकदा, श्रामण्यस्याऽन्तिमदिनेषु पुरुषमेनं प्रति प्रगाढमाकर्षणमनुभूतवानासीदिति । स वासुदेवस्याऽऽमन्त्रणं सहर्ष स्वीकृतवान् । यदा तौ नदीतटं प्राप्तौ तदा स नौकां सुरक्षिततया स्थापयितुं वासुदेवस्य साहाय्यं कृतवान् । ततो वासुदेवस्तं स्वकुटीरेऽनयत्, तस्मै चाऽऽहारं जलं चाऽदात् । सिद्धार्थस्तमाहारं जलं च वासुदेवप्रदत्ताम्रफलेन सह ससन्तोषमशितवान् । ततः, सूर्यास्तमनवेलायां तौ द्वावपि नदीतीरस्थितस्य वृक्षस्कन्धस्योपरि निषण्णावास्तां, तदा च सिद्धार्थो वासुदेवाय मूलादारभ्य स्वजीवनस्य सर्वमपि वृत्तं कथितवान् तथाऽद्याऽपि प्रवृत्तस्य विषादमयमुहूर्तस्याऽनन्तरं स कथं तं प्राप्तवानित्यादि सर्वं कथितवान् । निशीथं यावत् तयोर्गोष्ठी प्रवृत्ता। __ वासुदेवोऽपि च स्थिरतया सर्वथैकाग्रतया च सर्वमपि तत्कथनं श्रुतवान् । तस्य जन्म शैशवमध्ययनं साधनां विषयसुखान्यपेक्षाश्चाऽधिकृत्य सर्वमपि तद्वृत्तं स श्रुतवान् । वासुदेवस्याऽयं श्रेष्ठो गुण आसीद् यो विरलजनेष्वेव दृश्यते - सः श्रोतुं जानाति स्म । एकमपि शब्दमनुच्चारयन्नपि स तथा शृणोति स्म यथा कथयितुः प्रतीतिर्भवति स्म यत् स प्रत्येक शब्दं कर्णाभ्यां गृहीत्वा हृदये धारयन्नस्ति, शान्त्या धैर्येण श्रवणोत्सुकतयैकमपि च शब्दमजहद् - इति । श्रवणे स सर्वथाऽधृतिं त्यजति स्म, न कुत्राऽपि प्रशंसां निन्दां वा करोति स्म, केवलं शृणोति स्मैव । 'स्वजीवने स्वीयप्रयत्नेषु स्वकीयदुःखेषु च सहभागितां वहन्नीदृशः श्रोता प्राप्तो मया - इत्येतत् कियदद्भुतं सञ्जात'मिति सिद्धार्थश्चिन्तितवान् । कथनान्ते, यदा सिद्धार्थो नदीतटस्थितस्य वृक्षस्य, सर्वथा विषण्णस्य स्वस्य, पवित्रस्यौङ्कारस्य, च विषये, तथा गाढनिद्रानन्तरं तेनाऽनुभूतस्य नदी प्रति प्रेम्णो विषये कथितवान् तदा तु वासुदेव इतोऽप्यधिकं सावधानीभूय नेत्रे च निमील्य पूर्णतयैकाग्रो भूत्वा तं श्रुतवान् । सिद्धार्थेन स्ववृत्तकथने समर्थिते दीर्घान्तरालं मौनेन व्यतीय वासुदेवस्तमुक्तवान् – 'तथैव जातं यथा मया चिन्तितम् । नदी भवता सह संवादं कृतवती, सा भवति सौहार्दमपि प्रकटितवती, सा भवता सह भाषते । एतच्च सर्वथा शोभनमस्ति । भवान् मया सहैव वसतु, मित्र ! । पुरा ममाऽपि पत्नी आसीद् या मया सहैवाऽत्र कुटीरे निवसति स्म । किन्तु बहोः कालात् पूर्वमेव सा मृता । तत्प्रभृत्यहमेकल एव जीवामि । इदानीं भवान् यदागतस्तच्छुभमेव । अत्र कुटीरे भवान् मया सहैव निवसतु । उभयोरप्यावयोः कृतेऽत्र पर्याप्त स्थानमन्नं चाऽस्ति' । __ 'भृशमुपकृतोऽस्मि' – सिद्धार्थ उक्तवान् । 'उपकृतोऽस्म्यहं भवदामन्त्रणं च स्वीकरोमि । तथा वासुदेव ! यद् भवता स्थैर्येणैकाग्रयेण च मम कथनं श्रुतं तदर्थमप्युपकृतोऽस्ति । अत्र जगति विरला एव जना श्रोतुं जानन्ति । मया चाऽद्ययावदपि भवादृशः श्रोता न लब्धः । भवतः सकाशादहमपि श्रवणकलामेनां शिक्षिष्ये'। वासुदेवेनोक्तम् – 'अवश्यं भवान् शिक्षिष्यते, परं न मत्सकाशात् । नद्येषा मां शिक्षितवत्यस्ति श्रोतुम् । भवानपि तत एव शिक्षिष्यते । नदी हि सर्वमपि जानाति, तथा यः कोऽपि ततः सर्वमपि शिक्षितुं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154