Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रिय !, भवतः केशा अपि पलिताः सञ्जाताः । एवं सत्यपि भवान् तस्य युवश्रमणस्य सदृश एवाऽसि य एकदा विवस्त्रो रजोगुण्डितपादश्च ममोद्याने समायातः । कामस्वामिनं मां च विहाय यदा भवान् गतवांस्ततोऽप्यधुना भवानाधिक्येन श्रमणवत् प्रतिभाति । भवतो नेत्रे तस्य युवश्रमणस्येवैव स्तः सिद्धार्थ ! । अहमपि वार्धक्यग्रस्ता सञ्जाताऽस्मि, किं भवान् मां प्रत्यभिजानाति ?'
सिद्धार्थः स्मितवान् कथितवांश्च – 'प्रिये कमले ! अहं त्वां शीघ्रमेव प्रत्यभ्यजानम्' । ततस्तस्या नेत्रे विषप्रभावाद् घूणिते निमीलिते च । एतद् दृष्ट्वा बालको रोदनमारब्धवान् । तदा सिद्धार्थस्तमुत्सङ्गे शाययित्वा विलपन्तं तं मस्तके लालितवान् । अथ च, बालस्य तस्य मुखं दृष्ट्वा, स स्वीयशैशवेऽभ्यस्तमेकं ब्राह्मणगानं स्मृतवान् । ततो मन्दमन्दं स मधुरस्वरेण तं गानं गीतवान् । गानशब्दा अप्यतीतं शैशवं च समुल्लङ्घय समागता इव तन्मुखान्निःसरन्ति स्म । गानं श्रावं श्रावं स बाल ईषत् क्रन्दन्नेव निद्राधीनो जातः । सिद्धार्थस्तं वासुदेवशय्यायां शायितवान् । ततश्चल्लयामोदनं पचन्तं वासुदेवं दृष्टवान् । सोऽपि स्मितं कृतवान् ।
'एषा म्रियमाणाऽस्ति' – सिद्धार्थो मृदुतयोक्तवान् । ___ वासुदेवः शिरश्चालितवान् । चुल्लेरग्नेः प्रकाशस्तस्य मुखे प्रतिभासमान आसीत् । यातनया तस्या वदनं विवर्णं जातमासीत् । सिद्धार्थो दुःखं संविभजन्निव शान्त्यैकाग्रतया धैर्येण च तस्याः पीडायुक्तं मुखं निरीक्षितवान् । विदग्धा कमला दृष्टिपातेनैवैतदवगतवती ।
तमेव पश्यन्ती साऽकथयत् – 'मम प्रतिभाति यद् भवतो नयने अपि परावर्तिते स्तः । ते किञ्चिदिव विशिष्टे जाते स्तः । भवानितोऽपि सिद्धार्थ एवेत्येवं भवन्तं कथं प्रत्यभिजानीयाम् ? यतो भवान् सिद्धार्थः सन्नपि नास्ति तत्सदृशः !' ।
सिद्धार्थः किमपि नोवाच । केवलं शान्तभावेन तस्या नयनयोरेव विलोकितवान् । 'किं भवता स्वध्येयमधिगतम् ? किं भवताऽन्तः शान्तिः प्राप्ता वा ?' – सा पृष्टवती । सिद्धार्थः केवलं स्मितवान्, स्वहस्तं च तद्धस्तोपरि स्थापितवान् । 'आम्, मम दृश्यते एव; अहमपि शान्ति प्राप्स्याम्येव' – सा सोत्साहमुक्तवती । 'भवत्या प्राप्तैव सा किले'ति मृदुस्वरेण सिद्धार्थः कथितवान् ।
कमला स्थिरतया तमेव दृष्टवती । गृहान्निर्गमनकाले हि तस्या उद्देशस्तु गौतमबुद्धस्य दर्शनार्थं गमनमासीत्, तत्र च गत्वोपशमलेशस्य प्राप्तिरासीत्; किन्तु तत्स्थाने सा केवलं सिद्धार्थमेव प्राप्ता । तच्च शोभनमेवाऽऽसीत् तस्याः कृते, तथा शोभनं यथा सा महात्मानं बुद्धं दृष्ट्वाऽन्वभविष्यत् ! एतच्च सा तस्य कथयितुमिष्टवती किन्तु तस्या जिह्वा तदिच्छां नैवाऽनुवर्तितवती । शान्तभावेन सा तं विलोकितवती, स च तस्या दृष्टेः क्रमशः क्षीयमाणं जीवनं निरीक्षितवान् । यदा च तस्या नयनतोऽन्तिमः पीडाबिन्दुनिष्क्रान्तः, यदा च तस्या शरीरादन्त्यः कम्पोऽतिक्रान्तः, सिद्धार्थः स्वीयाङ्गुलीभिस्तन्नयनच्छदे पिहितवान् ।
९१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154