Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ततः स चिराय तस्या मृतं वदनं निरीक्षमाणस्तत्रैवोपविष्टवान् । तस्या वृद्धं श्रान्तं च मुखं, तस्याः आकुञ्चितावधरौ च विलोक्य स स्मृतवान् यदेकदा, स्वजीवनस्य वसन्तसमये, कथं तेनेमावेवाऽधरौ प्रत्यग्राञ्जीरखण्डेन सहोपमितावास्तामिति । दीर्घकालं यावत् स तदीयं गतशोभं वलीपूर्णं चाऽऽननं निविर्णितवान्, सहैव स स्वीयं वदनमपि तादृशमेव विवर्णं मृतप्रायं च जातमस्तीत्यनुभूतवान्, समकालमेव च स तस्याः स्वस्य च वदनं तारुण्यपूर्ण रक्ताधरं भासुरनयनं च साक्षात्कृतवान्, ततश्च वर्तमानस्य समकालीनास्तित्वस्य चाऽनुभूत्याऽऽक्रान्तोऽभवत् । अस्मिन् क्षणे स प्रत्येकं जीवस्याऽविनाशित्वं प्रत्येकं क्षणस्य च शाश्वतत्वमत्यन्तं तीव्रतयाऽनुभूतवान् । ____ यदा स उत्थितस्तदा वासुदेवेन तस्मै किञ्चिदोदनादिकमशनार्थं दत्तं किन्तु सिद्धार्थस्तन्नैव भुक्तवान् । ततो गोष्ठे, यत्राऽजाऽऽसीत् तत्र, किञ्चन पलालमास्तीर्य वासुदेवः शयितवान्, परन्तु सिद्धार्थः कुटीराद् बहिर्गत्वाऽऽरात्रि नदीमेव शृण्वन्, स्वजीवनस्य च सर्वैरपि कालखण्डैर्युगपदेवाऽऽक्रान्तो व्याप्तश्चाऽतीते न्यमज्जत् । अथाऽपि काले काले समुत्थाय स कुटीरद्वारं गत्वा निरीक्षितवान् यद् बालः स सुप्तोऽस्ति न वेति ।
प्रत्यूषे, वासुदेवो गोष्ठाद् बहिरागत्य स्वमित्रपार्वं गतवान् । 'भवान् नैव शयितः खलु !' – स पृष्टवान् ।
'नैव वासुदेव !, अहमत्रैव नदीं शृण्वन्नुपविष्टः । सा मां सुबहु कथितवत्यस्ति । सा मम चित्ते समाधायकानेकत्वविचारान् पूरितवती' ।
'भवता गाढव्यथाऽनुभूताऽस्ति सिद्धार्थ !, एवंसत्यपि अहं पश्यामि यद् विषादो भवद्धृदये नैव प्रविष्टः' ।
"नैव, प्रियमित्र !, किमर्थं मया विषण्णेन भवितव्यम् ? योऽहं समृद्धः प्रसन्नश्चाऽऽसं सोऽहमधुनाऽधिकं समृद्धोऽधिकं च प्रसन्नो जातोऽस्मि । यतो मे पुत्रो मम समुपलब्धोऽस्ति' ।
'भवतः पुत्रं त्वहमप्यभिवादयामि । किन्तु सिद्धार्थ ! अधुना किञ्चित् कार्यं कुर्याव । बहु करणीयं विद्यते । यस्यां शय्यायां मे पत्नी मृता तत्रैव कमलाऽपि मृता । अतो यस्मिन् स्थाने मयैकदा मत्पत्न्याश्चिता विरचिताऽऽसीत् तत्रैव कमलायाश्चितामपि विरचयेव' ।
ततो बाले शयाने एव ताभ्यां कमलार्थमेका चिता विरचिता ।
९२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154