Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मुखे, प्रपाते, घट्टे, प्रवाहे, समुद्रे, पर्वते चेति सर्वेष्वपि स्थानेषु; तथा तस्याः कृते केवलं वर्तमानकाल एव विद्यते, भूतकालस्य भविष्यत्कालस्य च छायाऽपि तस्यां नैव पततीति ?'
_ 'एवमेव' – सिद्धार्थोऽब्रवीत्, 'यदा चाऽहमेतज्ज्ञातवान्, मया मे जीवनमपि समीक्षितं, तदपि च नदीतुल्यमेवाऽवर्तत । बालः सिद्धार्थः, प्रौढः सिद्धार्थो वृद्धश्च सिद्धार्थः केवलं छायाभिरेव भिद्यन्ते न पुनस्तत्त्वतः । अतीते सिद्धार्थस्य पूर्वजन्मान्यपि नाऽऽसन् भविष्यति च तस्य मरणं ब्रह्मणि च तन्निवर्तनमपि नाऽस्ति । अतीतं नामाऽनागतं च नाम न किमपि विद्यते, प्रत्येकं वस्तु केवलं वर्तमानमेवाऽस्ति, वर्तमान एव च वास्तविकोऽस्ति' ।
___ सिद्धार्थोऽतीव प्रसन्नतया वदन्नासीत् । अनयोपलब्ध्या स भृशं प्रमुदित आसीत् । 'जीवनस्य सर्वमपि दुःखं, भयं, सन्तापश्च काले एव निहिता नाऽऽसन् खलु ? जगतः सर्वाण्यपि कष्टानि पापानि च काले जिते एव, काले निरस्ते एव वा न जितानि खलु ?' - स सोत्साहं वदन्नासीत्, किन्तु वासुदेवः केवलं मधुरं स्मित्वा स्वशिरश्चालितवांस्तदभ्युपगमदर्शनार्थं, स्वकार्ये च प्रवृत्तः ।
यदा च प्रावृषि नद्यां पूरं समागतं तरङ्गमालाकुला च सोच्चैर्जगर्ज तदा सिद्धार्थः पुनरप्यकथयत् - 'किं नैतत् तथ्यं मित्र ! यन्नद्येषा बहून् ध्वनीन् धारयति ? राज्ञो, योधस्य, गोः, पक्षिणो, गर्भवत्याः स्त्रियो, निःश्वसतो जनस्य सहस्रशश्चाऽन्ये ध्वनयोऽस्यां न सन्ति खलु ?'
___'सत्यमेतद् भोः !', वासुदेवः शिरश्चालनपूर्वं कथितवान् – 'नद्यामस्यां सर्वेषामपि जीवानां ध्वनयः सन्त्ये व' ।
'तथा जानाति भवान् ननु, यद् - यदाकदाचित् कश्चन तस्याः सहस्रशो-ध्वनीन् समकालमेव शृणोति तदेयं किमुच्चारयति ?' – सिद्धार्थोऽग्रेऽपृच्छत् ।
वासुदेव उच्चैर्हसितवान् । ततः स सिद्धार्थं प्रति किञ्चिदवनम्य तस्य कर्णे पवित्रमोङ्कारमुच्चारितवान् । एतदेव च तदासीद् यत् सिद्धार्थेनाऽपि श्रुतम् ।
गच्छता कालेन सिद्धार्थमुखे विलसत्स्मितं वासुदेवस्मितमनुकर्तुमारब्धम् । तदेव तेजस्तदेव सुखं, ता एव च प्रकाशिता मुखरेखाः, तदेव च बालसहजं मौग्ध्यं, तदेव च वृद्धजनोचितं गाम्भीर्यम् । बहवः प्रवासिनस्तौ द्वावपि नाविको सङ्गतौ दृष्ट्वा 'भ्रातरावेता'विति निश्चिन्वन्ति स्म । बहुधा सायाह्ने तौ द्वौ सममेव नदीतटे वृक्षस्कन्धमवलम्ब्योपविशतः स्म । ततो निःशब्दतया द्वावपि नदीं शृणुतः स्म । नद्येषा तयोः कृते न केवलं जलमासीदपि तु जीवनस्याऽऽत्मनः शाश्वततत्त्वस्य च ध्वनिरासीत् । बहुशश्चैवमपि भवति स्म यन्नदीश्रवणकाले द्वयोरपि चिन्तनं तुल्यमेव भवति स्म, कदाचित् पूर्वतनदिनस्य संवादविषयकं, कदाचिच्च कञ्चन प्रवासिनमधिकृत्य वा - यस्य स्थित्या नियत्या च तयोश्चित्तमाक्रान्तं स्यात्, कदाचिन्मरणविषयकं, कदाचिच्च बाल्यमाश्रित्य । तथा यदा नदी तौ सममेव किञ्चन शुभं वदति स्म तदा द्वावपि परस्परं पश्यतः स्म, तुल्यमेव विचारं कुर्वन्तौ, तुल्यस्यैव प्रश्नस्य च तुल्यमेवोत्तरं लब्ध्वा प्रमुदितौ भवतः स्म ।
८८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154