Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 96
________________ शक्नोति । भवताऽपि तस्याः सकाशात् सयत्नं निमज्जनमगाधे चाऽवगाहनं शिक्षितमेव खलु ! । तथा, धनिकः प्रतिष्ठितश्च सिद्धार्थो नौकाचालको भविष्यति, विद्वान् ब्राह्मणः सिद्धार्थो नाविको भविष्यति - इत्येतदपि भवान् नदीसकाशादेव शिक्षितवान् खलु ! । इतोऽप्यधिकं ततो बढेव शिक्षिष्यते भवान्' । ततो दीर्घमौनानन्तरं सिद्धार्थः पृष्टवान् – 'किं तद् वासुदेव ! ?' वासुदेव उत्थितः । 'रात्रिर्बहु व्यतीताऽस्ति' - स उक्तवान् । 'अधुना शयावहे । यच्च भवान् पृच्छति तस्योत्तरं दातुमहं न शक्तो मित्र ! । भवान् यथाकालं तज्ज्ञास्यत्येव, अथवा भवान् तज्जानात्येव । तथाऽहं किल विद्वज्जनो नाऽस्मि, भाषितुं विचारयितुं वा च नैव जानामि । अहं केवलं श्रोतुं भगवन्निरतश्च भवितुं जानामि । अन्यद्धि मया किञ्चिदपि नैव शिक्षितमस्ति । यद्यहं भाषितुं शिक्षयितुमुपदेष्टुं वाऽशक्ष्यंस्तदाऽहं गुरुरुपदेशको वाऽभविष्यम् । किन्तु तथा नास्ति, यतोऽहं केवलमेको नाविकोऽस्मि, मम कार्यं तु जनानां नदीपारप्रापणमस्ति । मया हि सहस्रशो जना नदीपारं प्रापिताः सन्ति, किन्तु तेषां सर्वेषामपि जनानां नद्येषाऽन्तरायरूपैव जाताऽस्ति, नाऽन्यत् किञ्चित् । जना हि धनार्थं वाणिज्यार्थं विवाहाद्यर्थं यात्रार्थं वा पर्यटिताः, तदा च नद्येषा तेषां मध्येमागं समागता, नाविकश्च तानवरोधभूतामेनां त्वरया तारयितुं विद्यमान आसीत् । यद्यपि सहस्रशो जनेषु केचन, पञ्च-षा जनास्तादृशा अप्यासन् येषां कृते नद्येषाऽवरोधरूपा नाऽऽसीत् । ते एतस्या ध्वनि श्रुतवन्तस्तं प्रति च सकर्णा जाताः । तेषां कृते चैषा नदी पवित्राऽस्ति यथा मत्कृते । अधुना शयेवहि सिद्धार्थ !' । सिद्धार्थो नाविकेन सहैवोषितवान्, नौचालनं नौसम्भालनं च शिक्षितवान् । नौसम्बन्धिनि कार्ये चाऽसति स वासुदेवेन सह व्रीहिक्षेत्रे कार्यं करोति स्म, काष्ठानि सगृह्णाति स्म, फलावचयं च करोति स्म । स नौकादण्डान् निर्मातुं, नावं संस्कारयितुं, करण्डकांश्च रचयितुं शिक्षितवान् । यद्यत् स कृतवान् शिक्षितवांश्च तत्सर्वेणाऽपि स सन्तुष्ट आसीत् । कालश्च त्वरितं व्यत्येति स्म । परं स वासुदेवसकाशाद् यच्छिक्षितवांस्ततोऽप्यधिकं नद्याः सकाशाच्छिक्षितवान्, सततं च शिक्षितवान् । सर्वस्मादप्यधिकं तु स ततः सकाशात् श्रोतुं, निश्चलचित्ततया श्रोतुं, जिज्ञासापूर्णेनोद्घाटितेन च हृदयेन, अनासक्ततया, निरीहतया, अपरीक्षकतया अभिप्रायमुक्ततया च श्रोतुं शिक्षितवान् । . स वासुदेवेन सह सुखेन निवसति स्म । तौ द्वावपि च कादाचित्कतयैव सम्भाषेते स्म, तदपि चाऽल्पैर्दीर्घालोचनपूर्णैश्चैव शब्दैः । वासुदेवो हि सर्वथा मितभाषी आसीत्, सिद्धार्थश्च विरलतयैव तं भाषयितुं समर्थो भवति स्म । एकदा स तं पृष्टवान् – “किं भवताऽपि नद्याः सकाशाद्रहस्यमेतच्छिक्षितं यत् - कालनामकं किमपि वस्तु नास्त्येवेति खलु ?' श्रुत्वैतद् वासुदेवस्य मुखे प्रोज्ज्वलं स्मितं व्याप्तम् । तेनोक्तम् – 'एवं सिद्धार्थ !, परं मन्येऽहं यद् भवतः कथनस्याऽयमेव भावार्थः स्यात्, यथा - नदी हिं समकालमेव सर्वत्र वर्तते - उद्गमस्थाने, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154