Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 93
________________ ५. नाविकः 'अहमत्रैव, नद्यास्तीर एव वत्स्यामि', सिद्धार्थश्चिन्तितवान् । 'सैवैषा नदी यामहं नगरगमनकालेऽतिक्रान्तवान् । एकः सौहार्दपूर्णो नाविको मामस्याः पारं प्रापितवान् । अहं तत्समीप एव गमिष्यामि । एकदा हि तस्य कुटीरान्नवं जीवनं प्रति मम पन्थाः प्रारब्ध आसीत् । तच्च जीवनमिदानीं जीर्णं विनष्टं चाऽस्ति । अथ च भवतु नाम मे इदानींतनः पन्थाः, नूतनं च जीवनं तत्कुटीरादेव पुनः प्रारभ्यताम् !'। स प्रसन्नतया जलप्रवाहं, तस्य स्वच्छं हरितवर्णं, तथाऽद्भुतसंरचनापूर्णास्तस्य स्फटिकप्रभा रेखा निरीक्षितवान् । जलतलादुत्थिता प्रोज्ज्वलमौक्तिका इव जलबुदबुदा दर्पणवत्स्वच्छ जले तरन्त आसन् नीलवर्णमनन्ताकाशं च तेषु प्रतिबिम्ब्यते स्म । नदी किल तं प्रति लोचनसहौः - हरित-शुक्ल-नीलवर्णेविलोकयन्तीवाऽभासत । स नद्यां कियत् स्निह्यति स्म ! नद्यपि तं कियदाकृषति स्म ! नद्यै स कियत् कार्तश्यं वहति स्म ! तस्याऽन्तःकरणान्नूतनतयोत्थितो ध्वनिस्तं प्रेरयन्नासीत् – 'नद्यामेतस्यां स्निह्यतु, एतस्यास्तटे एव वसतु, नदीसकाशाच्च शिक्षताम्' । 'आम्' - तेनोक्तम् । स नद्याः सकाशाच्छिक्षितुमिच्छति स्म, स तां श्रोतुमिच्छति स्म । यः कोऽपि नदीमेनां तद्रहस्यानि चाऽवबुध्यति स बह्ववबोटुं शक्नोति; बहूनि रहस्यानि, ननु सर्वाण्यपि रहस्यानि तस्य कृते समुद्घाटितानि भवन्तीति तस्य प्रतिभातम् । परमद्य तु स नद्या केवलमेकतमद् रहस्यं वीक्षितवान्, तद् रहस्यं येन तस्याऽऽत्मा दृढतया धारितः । तेन निरीक्षितं यन्नदीजलं सातत्येन प्रवहमानमपि प्रतिक्षणं विवक्षितप्रदेशे उपस्थितमप्यासीत् । तद्धि सर्वदा समानमेव भवदपि प्रतिक्षणं नूतनमेवाऽभवत् । को वैतदवबुध्येताऽवधारयेद् वा? स स्वयमपि तन्नैवाऽवबुद्धवान्, केवलमव्यक्तो विकल्पोऽस्पष्टा स्मृतिदिव्याश्च ध्वनयस्तन्मनो व्याप्नुवन्ति स्म । सिद्धार्थोऽभ्युत्थितवान् । क्षुत्पीडेदानीमसह्या जायमानाऽऽसीत् । यथाकथमपि तां सहमानः स नदीतटे भ्रमन्नासीत्, जलतरङ्गाणां कलकलध्वनि शृण्वन्, स्वशरीरे जायमानं तीव्रक्षुद्वेदनाध्वनिं च शृण्वन् । ___ यदा स घट्ट प्राप्तस्तदा तरणनौका तत्रैवाऽऽसीत्, तथा नाविको, येनैकदा तरुणः श्रमणः पारं प्रापितः, सोऽपि नौकायामुपविष्ट आसीत् । सिद्धार्थस्तं प्रत्यभिज्ञातवान् । सोऽपि च वयस्को जात आसीत् । 'किं भवान् मां नदीपारं प्राययिष्यति ?' सिद्धार्थः पृष्टवान् । कञ्चन विशिष्टव्यक्तित्वशालिनं जनमेकाकिनं पादचारिणं च दृष्ट्वा विस्मितो नाविकस्तं नावि ८४ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154