Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
किन्तु योऽहं भवद्रक्षार्थमत्र स्थित आसम्, सोऽहमेव निद्रावशगोऽभवम् । ततश्च भवत्यवधानं दातुं न शक्तोऽभवम् । तथाऽपि, अधुना तु भवान् जागृतोऽस्ति, अतो मया गन्तव्यं मम सहयात्रिणश्चाऽऽसादनीयाः'।
___ 'श्रमण ! मम निद्राकाले मां रक्षितुं यद् भवानुपविष्टस्तदर्थमहं भवत उपकारं मन्ये । महात्मनो बुद्धस्याऽनुयायिनो हि स इव करुणापूर्णहृदया एव भवन्ति । किन्त्वधुना भवान् स्वयात्रामनुवर्तितुमर्हति' - सिद्धार्थो मृदुतयोक्तवान् ।।
'अहं गच्छामि किल । भवान् स्वं निभालयतु' । 'उपकृतोऽस्मि भोः श्रमण !' । किञ्चिदवनम्य गोविन्दोऽवदत् - 'पुनर्मिलनाय' - इति । तदा सिद्धार्थोऽपि – 'पुनर्मिलनाय गोविन्द !' - इत्यवदत् । एतच्छ्रुत्वा गोविन्दः स्तब्धोऽभवत् । 'क्षम्यतां भोः !, किन्तु भवान् मम नाम कथं जानाति ?'
'सिद्धार्थो हसित्वा कथितवान् – 'भोः गोविन्द ! अहं भवन्तं भवतः पितृगृहात्, ब्राह्मणविद्यालयात्, यज्ञेभ्यः, श्रमणानामन्तिके दीक्षा ग्रहणकालात् तथा जेतवनविहारे महात्मबुद्धपार्वे भवतो भिक्षुकत्वाङ्गीकारकालाज्जानामि' ।
'अहो ! भवान् सिद्धार्थोऽस्ति खलु !' – गोविन्द उच्चैराराटीत् । 'इदानीमहं भवन्तं प्रत्यभिज्ञातवान् । एतत्तु नाऽवगच्छामि यत् किमर्थं मया भवान् झटित्येव नाऽभिज्ञातः । नमस्ते सिद्धार्थ ! पुनरपि भवन्तं दृष्ट्वा भृशं प्रमुदितोऽस्म्यहं किल' ।
'अहमपि भवन्तं बहोः कालाद् दृष्ट्वा नितरां हृष्टोऽस्मि । अपि च, भवताऽहं निद्रायमाणो निरीक्षितोऽस्मि । एतदर्थं पुनरपि कृतज्ञोऽस्मि । यद्यपि मे रक्षणस्याऽऽवश्यकता नाऽऽसीत् । भवतु । परं मित्र ! भवान् कुत्र प्रस्थितोऽस्ति ?' |
'अहो ! अहं कुत्राऽपि न प्रस्थितः । वयं साधवः सर्वदा यात्रारता एव वर्तामहे । केवलं प्रावृषि एकत्र तिष्ठामः । अन्यत्र काले तु स्थानात् स्थानं परिभ्रमणं कुर्मः, सङ्घशासनानुसारं जीवामः, जनानुपदिशामः, भिक्षया वृत्तिं कुर्मः पुनरपि च यात्रामनुवर्तामहे । एवं च सर्वदा वरीवति । किन्तु सिद्धार्थ ! भवान् कुत्र प्रस्थितोऽस्ति ?'।
सिद्धार्थोऽचकथत् – 'ममाऽपि वृत्तं भवता तुल्यमेव मित्र ! । अहमपि न कुत्राऽपि प्रस्थितः । अहमपि यात्रारतः सन् परिभ्रमणे उद्यतोऽस्मि' ।
गोविन्देनोक्तम् - ‘एवं वा ? भवतु, यदि भवान् कथयति यदहं यात्रारतोऽस्मीति - तदहं विश्वसिमि । किन्तु क्षम्यतां सिद्धार्थ ! भवान् यात्रिको न दृश्यते । यतो भवता धनिकवन्महा_णि वस्त्राणि
७८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154