Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शिक्षितवान् । ततो महात्मनो बुद्धस्योपदेशमपि महता विस्मयेनाऽऽत्मसात् कृतवानहम् । विश्वैक्यं विश्वज्ञानं च मयि रक्तमिव प्रवहमानमनुभूयते स्म. । किन्तु तथाऽपि मयि बुद्धं तस्य भव्यं ज्ञानं च त्यक्तुमदम्या स्पृहा समुत्पन्ना । अहं ततो निर्गतवान् कमलायाः सकाशाच्च कामसुखं कथं प्राप्तव्यमिति शिक्षितवान्, वाणिज्यं च कामस्वामिनः सकाशात् । अहं धनस्य सङ्ग्रहमपि कृतवान् अपव्ययं चाऽपि । अहं श्रेष्ठं भोजनमास्वादितुं शिक्षितवान्, इन्द्रियाणि च विषयास्वादैरुत्तेजितवान् । एतत् सर्वं वर्षाणि यावत् कृतवानहं मम प्रज्ञां नाशितवान्, विश्वैक्यं विस्मृतवान्, चिन्तनशक्तिं चोच्छेदितवान् । किमेतन्न सत्यं यदहं शनैः शनैर्बहूंश्च भ्रंशाननुभूय प्रौढपुरुषात् पुनरपि बालकतया परावर्तितः खलु ? चिन्तकात् प्राकृतो जनोऽभवम् । तथा, एवं स्थितेऽपि चिन्तयामि यदयं मार्गः प्रशस्त एव, मम हृदये स्थितः पक्षी खल्वद्याऽपि न मृतः ।
किन्तु कीदृशोऽयं मार्गो, यत्र मया बहूनि मानि, बहूनि पापाचरणानि, बहूनि स्खलनानि समाचरितानि प्रभूतो निर्वेदः, भूयांश्च भ्रमः शोकश्चाऽनुभूतः । केवलं पुनरपि बाल्यप्राप्त्यै पुनरारम्भाय च । किन्तु, एतत् समुचितमेव जातम् । मेऽक्षिणी हसतो हृदयं च स्वीकुरुते । एतत् प्रति मया निराशाऽनुभवितव्याऽऽसीदेव, गहने विचारगर्ने निमज्जनीयमासीदेव, स्वात्मघातोऽपि च विचारणीय आसीदेव - किमर्थम् ? पुनः सौन्दर्यं प्राप्तुं, पुनः ओङ्कारं श्रोतुं, गाढतया शयितुं, याथार्थ्येन च पुनर्जागर्तुम् । मय्येव ममाऽऽत्मानं प्राप्तुं मया मौर्यमाचरणीयमेवाऽऽसीत् । पुनर्जीवनं प्राप्तुं मया पापाचरणं कर्तव्यमेवाऽऽसीत् । चिन्तयामि - अग्रे कुत्राऽयं मार्गो मां नेष्यति ? यतोऽयं पन्था अपि मन्ये मूर्ख एव । मन्ये स भ्रम्याकारेण व्रजति अथवा वृत्ताकारेण गच्छति । भवतु यथाकथमपि स व्रजतु नाम, अहं तमनुसरिष्याम्येव ।
___ अपि च, तस्याऽन्तःकरणे आनन्दस्योत्सा एव समुच्छलन्ति स्मेति सततमनुभूतवान् सः । स स्वमेव पृष्टवान् - 'कुत एते समागच्छन्ति खलु ? किमर्थमहमानन्दौघमनुभवन्नस्मि । किमहं गाढतया शयितवानित्येतदर्थमहं तमनुभवामि वा ? अथवा ओङ्कारप्रभावादेष उद्गतोऽस्ति वा किम् ? किमथवाऽहं तस्मादसमञ्जसात् पलायितोऽस्मि पलायनं च मम सिद्धं जातमित्येतदर्थं वा, ततश्चाऽहं विमुक्तोऽभवं बालकवच्चाऽनन्ताकाशस्याऽधस्तात् सहजतया स्थितोऽस्मि - तदर्थं वा ? अहो ! मम पलायनं कीदृक् शुभं समस्ति, विमुक्तिश्चाऽपि । यस्मात् स्थानाच्चाऽहं पलायितस्तत्र तु सर्वदा तीव्रतमविलासस्योन्मादस्य प्रमादस्य च वातावरणमासीत् । अहं ह्युन्मतवत् तत्र मद्यपानं द्यूतक्रीडनं च कुर्वन्नपि कथं धनिकानां तादृशां जीवनं तिरस्कुर्वन्नासम् । कथं चाऽहं तत्र दारुणे जगति इयच्चिरायाऽवस्थितत्यर्थं स्वमेव धिक्कृतवान् ? कथं वाऽहं स्वमेव प्रतिघ्नन्, विषाक्तं कुर्वन्, संपीडयंश्च स्वयमेव वृद्धः कुरूपश्चाऽभवम् ? इतः परमहं 'सिद्धार्थश्चतुरोऽस्ती'ति न कदाऽपि कल्पयिष्ये मंस्ये वा । अथाऽपि केवलमेकमेव वस्तु मे रोचते, मया तत् सुष्ठवेव कृतमिति, एतच्चाऽहं सर्वथा प्रशंसामि - यन्मया निजस्य घृणामयस्य मौर्यपूर्णस्य सर्वथा रिक्तस्य च जीवनस्याऽन्तः कृतः । भोः सिद्धार्थ ! भवता बहूनां वर्षाणां मौर्यस्याऽनन्तरं पुनरपि एकवारं किञ्चिच्छुभं चिन्तितं, किञ्चित् साधितं, स्वहृदयस्थितस्य पक्षणिो गानं श्रुतं समनुसृतं च !' ।
एवं चिन्तयित्वा स स्वमेव प्रशंसितवान्, स्वात्मनैव सन्तुष्टो जातः, उत्सुकतया च क्षुत्क्षामत्वेन
८१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154