Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
४. नद्यास्तीरे
नगराद् दूरं गतः सिद्धार्थोऽटव्यामितस्ततो परिभ्रान्तवान् । स्वमनसि तेन निर्णीतमासीत् - इतः परं तस्य तत्र निवर्तनं न भविष्यतीति । यज्जीवनं तेन वर्षाणि यावद् नगरे यापितं यदास्वादश्च केवलं निर्वेद एव विपरिणत आसीत् तदधुनाऽतीते परावृत्तमासीत् - बाष्पीभूतमासीत् । गायकः पक्षी मृत आसीत् । यस्य पक्षिणो मरणं तेन स्वप्ने दृष्टमासीत् स तु तद्धृदय एव वसति स्म । ___ संसारस्य कर्दमे स आकण्ठं निमग्नो जात आसीत् । सर्वतो जलशोषकस्य चूषक(sponge)स्येव तेन सर्वतो निर्वेदः खेदो मरणं चैव समाकृष्टान्यासन् । इदानीं स सर्वतोऽवसादेन, सर्वतो दुःखेन सर्वतश्च मृत्युनाऽऽक्रान्त आसीत् । जगति तादृशं किञ्चिदपि नाऽऽसीद् यत् किल तमाकृषेत्, सुखिनं कुर्यात्, आश्वासनं वा दद्यात् तस्मै ।,
इदानीं स उत्कटतया विस्मृति वाञ्छति स्म, चिरविश्रान्तिमिच्छति स्म, मरणं चाऽभिलषति स्म । यदि कथञ्चित् तन्मस्तकोपरि विद्युदापतेत्, व्याघ्रो वा कुतश्चिदागत्य तं भक्षयेत्, अथवा किञ्चन मद्यं किञ्चिद् वां विषं स्यात् यत् तस्मै विस्मरणं दद्यात्, सर्वथा स्मृतिभ्रंशं कुर्यात् चिरनिद्रायां वा धारयेत् यतो न कदापि जागरणं स्यात् तादृशं किञ्चित् स इच्छति स्म ।। ___कि तादृशं किञ्चिद् दूषणमासीत् खलु येन स नाऽनुलिप्तो जातः ?, तादृशं पापं मूर्खत्वं वाऽऽसीत् यत् तेन नाऽऽचरितं स्यात्, तदात्मनि तादृशः कश्चन कलङ्क आसीत् यत्कृते स स्वयमेवोत्तरदायी न स्यात् ? । एवं स्थितेऽपि किं जीवितं धारयितुं शक्यमासीत् ? किं पुनः पुनः श्वसनमपि शक्यमासीत् खलु ? अस्यां परिस्थितौ उच्छ्वसनं, निःश्वसनं, क्षुदनुभवनं, तच्छमनं, शयनं, स्त्रीसेवनं - किमेतद् दुश्चक्रं पुनः पुनरावर्तयितुं शक्यमासीत् ? एतत् सर्वमपि तत्कृते क्षीणं समाप्तं वाऽऽसीत् ।
सर्वथा हताशः सिद्धार्थो गहनेऽरण्ये भ्राम्यन् तस्या एव दीर्घाया नद्यास्तीरं प्राप्तो यस्यामेकदा यौवने गौतमबुद्धसकाशान्निर्गतः स नाविकेनैकेनोत्तारित आसीत् । स तत्राऽऽगत्य साशङ्क इव स्थितः । अवसादेन क्षुधा च स सर्वथा क्लान्त आसीत् । इतोऽप्यग्रे तेन किमर्थं गन्तव्यं ? कुत्र वा ? केन वा प्रयोजनेन? नैव, तस्य दुःखदस्य स्वप्नस्य निर्धूननादन्यत्, तस्याः पर्युषिताया मदिराया वमनादन्यत्, कटुकस्य व्यथापूर्णस्य जीवनस्योत्सर्जनाच्चाऽन्यत् तस्य मनसि न किमपि प्रयोजनं महेच्छा वाऽऽसीत् ।
नद्यास्तटे एको नालिकेरवृक्ष आसीत् । तस्य स्कन्धं हस्तेनाऽवलम्ब्य स तत्रैवोपविष्टः । तस्य दृष्टिः
७५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154