Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
"किन्तु, अद्य कियान् कालो व्यतीतस्तं ध्वनिं श्रुत्वा? कियतो दीर्घकालात् तेन नवं किमपि लक्ष्यं न प्राप्तमासीत् ? आ बहोः कालात् तस्य जीवनपथः कथं नीरस उत्सन्नश्च सञ्जात आसीत् !! कियन्तो वत्सरास्तेनोन्नतध्येयविहीनतया, उत्कटाभीप्साशून्यतया, उत्कर्षलेशमप्यप्राप्य व्ययिता आसन् ? केवलं कानिचन लघुलघूनि कुसुखानि प्राप्य हृष्टेनाऽपि सर्वथाऽतृप्त्या !! किमप्यबुध्वैव तेन प्राकृतजनवत् कार्याणि कृतानि, बालवदभिलाषशतानि चिन्तितानि पूरितानि चेयन्ति वर्षाणि ! तथाऽपि प्राकृतजनेभ्यो बालेभ्यश्चाऽपि सकाशात् तस्य जीवनं निकृष्टं तुच्छं च सञ्जातमासीत्, यतस्तेषां प्राप्तव्यानि तस्य लक्ष्येभ्यः सकाशात् भिन्नान्यासन्, एवं तेषां दुःखानि चाऽपि तस्य नाऽऽसन् !"
कामस्वामिसदृशजनानां सम्पूर्णमपि जगत् तस्य कृते क्रीडामात्रं, नाट्यमानं, प्रहसनमात्रमासीत् । केवलं कमलैव तस्य प्रियतमाऽऽसीत्, तस्याः कृते एव तन्मनसि समादर आसीत्, किन्तु किं साऽपि शाश्वताऽऽसीत् ? किमद्याऽपि सा तस्याऽपेक्षिताऽऽसीत् ? स वाऽपि च तस्याः कृतेऽपेक्षणीय आसीद् वा ? किं तयोः निरर्थिकायाः क्रीडायाः कदाचिदप्यन्तः आसीद् वा ? किं तस्याः क्रीडायाः कृते एव जीवनीयमासीत् खलु ? नैव !! यतः एषैव क्रीडा संसारपदवाच्याऽऽसीत्, बालानां क्रीडैषा, या हि सुखदाऽऽसीत् यदि परं द्वित्रवारं दशवारं वा क्रीडिता, किन्तु निरन्तरं तस्याः क्रीडनं किमुचितमासीत् खलु?
सिद्धार्थेनाऽवबुद्धं यदधुना क्रीडैषा समाप्तिं गताऽस्ति । अधिकक्रीडनमशक्यमेवाऽतः परम् । तस्य शरीरे आपादमस्तकं कम्पनं जातम् । किञ्चिन्मृतं तस्याऽन्तःकरणे इवाऽपि तेनाऽनुभूतम् ।
. तस्मिन्नहनि आदिनं सहकारवृक्षस्याऽधस्तादेवोपविश्य स स्वपितरं, गोविन्दं, गौतमबुद्धं च विषयीकृत्य चिन्तनं कृतवान् । 'किं तेन कामस्वामीभवितुमेते सर्वेऽपि त्यक्ता आसन् वा ?' स तत्रैवोपविष्ट आसीद् यावदन्धकारः प्रसृतः । यदा स उपरि दृष्टवान् तदा तेन नीले नभोविताने प्रकाशमाना नक्षत्र-तारका विलोकिताः । तेन स्मृतं – 'अहो ! अहमत्र मम क्रीडोद्याने मदीयसहकारवृक्षस्याऽध उपविष्टोऽस्मि' । तस्य वदने स्मितमुल्लसितम् । 'किं तदावश्यकमासीत् ? किं तदुचितमासीत् ? अथवा किं तन्मौर्व्यपूर्ण नाऽऽसीद् यत् कस्यचित् क्रीडोद्यानस्य तथा तदन्तःस्थितस्याऽऽम्रवृक्षस्य स्वाम्यं स धारयति स्मेति ?'
अनेन विचारेण स तत्र पूर्णविरामं स्थापितवान् । तेनाऽनुभूतं यदेतदपि मृतं तस्याऽन्तः । स उत्थितवान् । सहकारतरुं क्रीडोद्यानं च 'स्वस्ति ते भूया'दिति सम्भाव्य ततो निर्गतवान् । तस्मिन् दिने स किमपि न खादितवानासीत् अतः स क्षुधातुरो जातः सन् स्मृतवान् यत् तन्नगरे तस्य गृहमप्यस्ति यत्र सर्वमप्याहारजातं विद्यतेऽन्यदपि वस्तुजातमस्तीति । पुनरपि स म्लानं स्मितवान्, मस्तकं च विधूय मनसैव तत् सर्वमपि गृहादि-वस्तुजातं सम्भावितवान् ।
अथ च तस्यामेव रात्रौ सिद्धार्थः सर्वमपि त्यक्त्वा नगरान्निर्गतः सन् पुनर्न कदाऽपि प्रत्यागतः । कामस्वामी चिराय तमन्विष्टवान्, कदाचित् स लुण्टाकैरपहृतः स्यादिति मत्वा; किन्तु कमलया तमन्वेष्टुं
७३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154