Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ यदा हि कदाचित् सोऽस्मात् शापरूपात् संमोहनात् जागरितो भवति स्म, दर्पणे च प्रतिबिम्बितं स्वीयं जर्जरं विरूपं च जायमानं मुखं पश्यति स्म, यदाऽपि च लज्जा जुगुप्सा च तन्मनो व्याप्नोति स्म तदा स पुनरपि द्यूतगृहं प्रति धावति स्म, लक्षान् पणीकरोति स्म, विलासितायां मत्तः सन् सुरापानं करोति स्म । ततश्च पुनरपि धनार्जनार्थं तत्सङ्ग्रहणार्थं चोत्कटतया प्रवर्तते स्म । अस्मिन् अर्थहीने विषचक्रे भ्रामं भ्रामं जर्जरीभूतः सोऽकालेऽपि जीर्णो रुग्णश्च जात आसीत् । अथैकदा स्वप्नैकेन स प्रबोधितः । तद्दिने सायं स कमलया सह तस्याः क्रीडोद्याने तरोरध उपविश्य वार्तालापं कुर्वन्नासीत् । कमला गभीरतया वदति स्म तदा । तस्याः शब्देषु व्यथा खेदश्चाऽनुभूयेते स्म । तया सिद्धार्थस्य गौतमबुद्धविषयका प्रश्नाः पृष्टाः, यथा - तस्य लोचने कियती निर्मले आस्ताम् ? तस्य मुखं कथं शान्तिपूर्णं सुन्दरं चाऽऽसीत् ? स्मितं च कथं प्रसादपूर्णमासीत् ? तस्य च समग्रोऽपि व्यवहारः कथमुपशान्त आसीत् ? - इत्यादि । सिद्धार्थप्रदत्तानुत्तरान् श्रावं श्रावमपि सा तृप्तिं नैव प्राप्ता । सिद्धार्थेन चिराय महात्मनो बुद्धस्य वर्णनं कर्तव्यमभवत् । ततो दीर्घं निःश्वस्य कमलयोक्तं 'ममेदं प्रतिभाति यदेकदा, शीघ्रमेव, अहं बुद्धभगवतोऽनुयायिनी भिक्षुणी भविष्यामि । इदं क्रीडोद्यानमपि तस्यैव समर्प्य तत्सङ्घस्य शरणं च गृहीत्वा तदुपदेशानुसारं जीविष्यामि' | ततः सा सिद्धार्थं तीक्ष्णकटाक्षेन प्रलोभयित्वाऽत्यन्तासक्ततयोत्कटतयोग्रतया च तं समालिङ्ग्य रन्तुमारब्धा । साऽद्याऽस्य क्षणिकसुखस्याऽन्तिमं मधुबिन्दुं समास्वादितुमिच्छति स्मेव । इतः पूर्वं, कामासक्तेर्मृत्योश्चैतावान् गाढः सम्बन्धोऽस्तीति सिद्धार्थेनैवंस्पष्टतया न कदाऽप्यनुभूतमासीत् । ततः स तस्याः पार्श्वे शयितवान्, तस्याश्च मुखं तन्मुखासन्नमेवाऽऽसीत् । तस्या नेत्रयोरधः, ओष्ठप्रान्तयोश्च तेनैदम्प्राथम्येन व्यक्ततया वल्यश्चर्मसङ्कोचाश्च परिलक्षिताः, यैर्हि जरा- वार्धक्ययोः स्पष्टः सङ्केतो दीयते स्म । सिद्धार्थः स्वयमपि, योऽद्याऽपि चत्वारिंशद्वर्षदेशीय आसीत्, स्वकेशेषु पलितान् लक्षितवानासीत्, तेन कमलायाः सुन्दरे मुखेऽप्यद्याऽवसादो दृष्टः । यस्मिन् पथि सुखदमवसानं नाऽऽसीत्, तत्र च प्रवासेनाऽऽयातं केवलं श्रान्तत्वं, जरसो विषादस्य चैव सङ्केताः, प्रच्छन्नमनिर्दिष्टं प्रायश्चाऽव्यक्तं भयं - जीवनसन्ध्याया भयं, वार्धक्यस्य भयं, मृत्योश्च भयमवसादश्च सिद्धार्थेन कमलाया वदने दृष्टः । दीर्घं निःश्वस्य सिद्धार्थस्तामापृच्छ्य ततो निर्गतः । तस्य हृदयं विषादेन निगूढभयेन च पूरितमासीत् । स्वगृहं गत्वा सिद्धार्थेन सा रात्रिः सुरापानेन सह नर्तकीनां सान्निध्ये यापिता । स्ववयस्येभ्यः स्वयं श्रेष्ठो नाऽऽसीत् तथाऽपि तेन श्रेष्ठताया अभिनयः कृतः । प्रचुरं मद्यं पीत्वा मध्यरात्रेऽतीव श्रान्तोऽपि सन् चित्तेऽविरतं प्रवर्तमानेन द्वन्द्वेनाऽत्यन्तमुद्विग्नः, ततश्चाऽश्रुपूर्णलोचनो विषण्णहृदयश्च स शयितुं गत: । हृदयं तस्य दुःखेन तथा सन्तप्तमासीत् यथा तेनाऽनुभूतं यत् स इतोऽपि तत् सोढुं शक्तो न स्यात् । अस्वादुमद्यपानं, अगभीरस्याऽपि अतिमधुरस्य सङ्गीतस्य श्रवणं, नर्तकीनां सौगन्ध्यातिरेकयुतकेशादीनामाघ्राणं च यथा हठान्मनो व्याप्नोति तथा ततोऽपि वाऽधिकया जुगुप्सया तन्मनो व्याप्तमासीत् । एतेषां सर्वेषामुपरिष्टाच्च स स्वात्मनैवाऽधिकं जुगुप्सित आसीत्, तस्य सुगन्धाः केशाः सुरापानेन दुर्गन्धपूर्णं मुखं, शैथिल्यं प्राप्ता Jain Education International - ७१ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154