Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 78
________________ वाणिज्यव्यापाराः कथं निर्वोढव्याः, जनानामुपरि कथमाधिपत्यमनुष्ठातव्यं, स्त्रीभिः सह कथं विलसितव्यमित्येतत् सर्वं तस्य सहजसाध्यं जातमासीत् । स उत्तमवस्त्राणि परिदधाति स्म, लघुलघुन्यपि कार्ये सेवकानादिशति स्म, सुगन्धितेन च जलेन स्नाति स्म । उत्तमतया संस्कृतं मिष्टान्नं मांसं स्वादूनि च व्यञ्जनानि भोक्तुं सुरापानं च कर्तुं तस्याऽभिरुचिर्वर्धते स्म, ततश्च प्रमादो विस्मृतिश्चाऽपि । विविधमनुष्याणां सङ्गत्या सोऽधुना द्यूतं चतुरङ्गं चाऽपि क्रीडितुं शिक्षितवानासीत् । नर्तकीनां नृत्याणि विलोकयितुं, शिबिकायामुपविश्य पर्यटितुं, कोमलतूलमयशय्यासु च शयितुं तस्मै रोचते स्म । किन्त्वेवंस्थितेऽपि स स्वमन्येभ्योऽतिशायिनं भिन्नं च मन्यते स्म सर्वदाऽपि । स सदैवाऽन्यान् कयाचिदुपहासपूर्णया हीनदृष्ट्या पश्यति स्म; तया हीनदृष्ट्या, यया श्रमणः कश्चन सांसारिकजनान् पश्यति । यदि कदाचित् कामस्वामी केनचित् कारणेनाऽस्वस्थो भवति स्म, अवमाननं चाऽनुभवेत्, अथवा वाणिज्ये काश्चन बाधाः प्राप्नुयात्, सिद्धार्थस्तमुपहसति स्मैव सर्वदा । किन्तु शनैः शनैरव्यक्ततयैव तस्याऽतिशयित्वबुद्धिरुपहासवृत्तिश्च क्षीणा जाता । प्रत्युत, यथा यथा तस्य भौतिकसमृद्धिर्वृद्धिङ्गतास्तथा तथा स सामान्यजनानां काश्चन लाक्षणिकता बालिशता-चित्तोद्विग्नताद्या अपि समासादितवान् । एवंसत्यपि स जनानसूयते स्म । यथा यथा स प्राकृतजनवदाचरति स्म तथा तथाऽधिकतया स तानसूयते स्म । तस्याऽसूयायाः कारणं त्वेकमेवाऽऽसीत् यथा सामान्यजना स्वजीवनस्य महत्त्वमवगच्छन्ति, स्वीयान् हर्ष - शोकादीन् गाढतयाऽनुभवन्ति, अविरतानुरागस्य च मधुररसं सोत्कण्ठमास्वादयन्ति तथा सकर्तुं न पारयति स्म । 1 - प्राकृतजना हि स्वयमेव स्वस्मिन् स्निह्यन्ति, स्वापत्यानि प्रीणन्ति, मानं धनं च सप्रतिबन्धं रक्षन्ति, भावियोजनां, सुखस्पृहां च साकाङ्क्षतया विचारयन्ति । किन्तु सिद्धार्थ एतत् सर्वं तेभ्यो न शिक्षितवान् न च बालिशसुखानि नाऽपि च मूढताम् । प्रत्युत तेषां यानि लक्षणानि तस्याऽनभिमततया तिरस्करणीयान्यासन्, तान्येव सोऽनायासं शिक्षितवानात्मसाच्च कृतवान् । Jain Education International S बहुधा भवति स्मैवं यत् - सविलासां रात्रिं यापयित्वा प्रातःकाले चिराय स उद्वेगं श्रमं चाऽनुभवन् शय्यामेवाऽऽ श्रयति स्म । यदि कदाचित् कामस्वामी स्वचिन्ताभिस्तं बाधते स्म तदा सोऽमर्षणो भवति स्म । यदा स द्यूते धनं हारयति स्म तदा स्वोद्वेगं निह्नोतुमुच्चैर्हसति स्म । पुरा हि तस्य वदनमन्यजनेभ्योऽधिकं चतुरमधिकं प्रज्ञाशालि प्रसन्नं च भासते स्म, किन्तु गच्छता कालेन तस्य मुखे विलसमाना स्मितरेखाऽदृश्येव जाता, शनै: शनैश्च तस्य मुखे धनिकजनानामिव - उद्वेगस्याऽसन्तोषस्याऽरुचेरप्रसन्नताया उदासीनताया नैष्ठुर्यस्य च भावाः समजायन्त । क्रमशो धनिकजनेषु व्याप्तमात्मदौर्बल्यं तच्चित्तमपि व्याप्तुमारब्धम् । खेदस्य सूक्ष्ममावरणं तन्मन आच्छादयितुं प्रारब्धम् । तच्च प्रतिदिनं किञ्चिद् गाढतरं, प्रतिमासं किञ्चन निबिडतरं, प्रतिवर्षं च किञ्चिद् गुरुतरं जायमानमासीत् । यथा नवं वस्त्रं कालात्यये जीर्णं, विवर्णं, मलिनं, सच्छिद्रं, जर्जरं च जायते तथैव गोविन्दाद् वियुक्तेरनन्तरं सिद्धार्थस्य नवं जीवनमपि गच्छता कालेन जीर्णमिव सञ्जातम् । वर्षेषु व्यतीतेषु तस्याऽपि वर्णो दीप्तिश्च क्षीणे जाते । वलिभिर्मलचित्रैश्च ६९ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154