Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तन्मलीमसमिवाऽभवत् । अन्तः स्थिते भ्रान्तिजुगुप्से यदा-कदाचिदपि प्रकटीभवतः स्म । किन्तु सिद्धार्थ एतत्सर्वं नैव निरैक्षतं । तस्य निरीक्षणे केवलमेतदेव समागतं यदेकदा येन विशदेन परिस्फुटेन चाऽऽन्तरध्वनिना स जागरित आसीत्, तस्योत्कृष्टे समये यो मार्गदर्शक आसीत् स ध्वनिरद्य सर्वथा क्षीणो विरतश्च जातोऽस्तीति ।
संसारस्तस्य चित्तवृत्ताविदानीमाधिपत्यं करोति स्मेव । भोग-विलासाः, लोलुपता, कार्यवैमुख्यमित्यादयस्तु तज्जीवनं दूषयति स्मैव, किन्तु यं दोषं स स्वयमेव सर्वदाऽतीव धिक्करोति स्म स एव दोषः परिग्रहोऽपि तच्चित्तमभिव्याप्य स्थित आसीत् । सम्पत्तिः, अधिकार ऐश्वर्य - मित्यादि सर्वमपि शनैः शनैस्तं स्ववशे स्थापयति स्म । इदानीं तत् सर्वमपि तस्य कृते क्रीडामात्रं क्रीडनकं वा नाऽऽसीत् प्रत्युत बन्धनं भारभूतं चाऽभवत् । चित्रं त्वेतद् यदुत्पथगामित्वमाश्रित्य स सर्वतोऽप्यधमां व्यसनेषु निष्ठारूपां द्यूतक्रीडां कर्तुमारब्धवान् ।
-
यदारभ्य सिद्धार्थो हृदयेन श्रामण्यं त्यक्तवान् तत्प्रभृति, यस्यां क्रीडायां पुरा स जनानुरोधेन तदुपहासपूर्वकं प्रावर्तत तस्यामेव द्यूतक्रीडायां स धनालङ्कारादिप्राप्त्यर्थमतीवोत्कटतया क्रीडितुमारब्धः । सोऽतीव दुर्धर्षोऽक्षक्रीडक आसीत् । तेन सह क्रीडितुं न कश्चन प्रभवति स्म, यतस्तस्य पणा उदग्रा साहसयुताश्चाऽऽसन् । स स्वमनस्तापं शमयितुमिव क्रीडति स्म । धनस्याऽतिव्ययेन द्यूते च निरर्गलं देवनेन तस्योत्कटं सौख्यं भवति स्म, यतो धनिकानामाराध्यदैवतरूपं धनं धनिकांश्च व्यक्ततयोपहासपूर्वकं चाऽवहेलियतुं तस्य पार्श्वे नाऽन्यः कश्चन उपाय आसीत् । अतः स उदग्रतया पणान् कुर्वन् स्वमन्यांश्चोपहसन् क्रीडंश्च सहस्रशो धनं जयति स्म हारयति स्म चाऽपि धनमलङ्कारान् गृहाणि - सर्वमपि पणीकुर्वन् वारं वारं जयति स्मारयति स्म वा । एतस्य मुख्यं कारणं त्वेकमेवाऽऽसीत् - एवंरीत्याऽनिश्चितक्रीडनेन यत् प्रबलं क्रूरं च चित्तौत्सुक्यं जायते स्म तत् तस्य सुखप्रदं भाति स्म । एतच्चित्तौत्सुक्यपूर्णं संवेदनं तस्मै अतितरां रोचते स्म, तच्च संवेदनं नवनवतयाऽनुभवितुं, वर्धयितुं, समुद्दीपयितुं स सातत्येन प्रयतते स्म । यतः स्वीयेऽतितृप्ते, मर्यादिते, नीरसे च जीवितेऽनेन संवेदनेनैव केवलं स यत्किञ्चित् सुखं, यत्किञ्चिदुत्तेजनं, यत्किञ्चिच्च तीव्रतरं जीवनानन्दमनुभवितुं शक्त आसीत् ।
यदा यदा च सोऽतिप्रमाणं धनं हारयति स्म तदा तदा स नूतनं धनमर्जयितुं, सोत्कण्ठं वाणिज्ये प्रवर्तितुं, स्वीयानधमर्णांश्च धनप्रत्यर्पणार्थं कठोरतया प्रेरयितुमारभते स्म यतो यया कयाऽपि रीत्या धनमुपार्ण्य स पुनरपि द्यूतं क्रीडितुमिच्छति स्म, पुनरपि महापणान् कर्तुमिच्छति स्म, पुनरपि चाऽधिकतया धनस्य तिरस्कारं प्रदर्शयितुमिच्छति स्म ।
क्रमशः सिद्धार्थो द्यूते धनहानेरधीरो जायते स्म, अधमर्णैर्ऋणेऽप्रत्यर्पिते विलम्बेन वा प्रत्यर्पितेमर्षणो भवति स्म, भिक्षुकान् प्रति सोऽधुना दयावान् नाऽऽसीत्, दीनानसहायांश्च दानं दातुं सहायं च कर्तुं सोऽधुना नेच्छति स्म । एकैकस्मिन् पणे यो लक्षमितं धनमपि पणीकरोति स्म स वाणिज्ये लघुन्यपि व्यवसाये कठोरः स्वार्थी च भवति स्म कदाचिच्च स्वप्नेऽपि धनमेव पश्यति स्म ।
Jain Education International
७०
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154