Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
__ मित्रेणोक्तं - 'भवतः कृते स यद् वाणिज्यं कुर्यात् तत्र लाभे जाते तस्य तृतीयं भागं देयं कल्पता, हानौ च जातायां भवता सह समानं भागं स निर्वहतु । एवंकृते स वाणिज्येऽधिकतयोत्साही भविष्यति' ।
कामस्वामी तद्वचनमनुसृत्य प्रवृत्तः । किन्तु सिद्धार्थस्तत्राऽप्यनासक्त एव स्थितः । यदा तस्य लाभो जातस्तदा स प्रशान्ततया तं स्वीकृतवान्, यदि च हानिः स्यात् तदा स हसित्वा कथयति स्म – 'अहो ! व्यवहारोऽयं ननु किञ्चिदिव निष्फलो जातः, परं न तत्र काऽपि चिन्ताऽस्ति' ।
वस्तुतस्तु स वाणिज्ये किञ्चिदिवाऽदत्तावधान एवाऽऽसीत् । एकदा स कुत्रचिद् ग्रामे महान्तं व्रीहिराशि क्रेतुं गतवान् । यदा स तत्र प्राप्तस्तदा पूर्वमेव तत्रत्यैर्जनैः स राशिरन्यस्मै वणिजे विक्रीत आसीदिति तेन ज्ञातम् । तथाऽपि स सर्वथाऽनुद्विग्न: कानिचन दिनानि तत्रैवोषितवान्, कृषकैः सह मनोरञ्जनं कृतवान्, धनं च बालकेभ्यो विभज्य दत्तवान्, तत्र च प्रवृत्ते कस्मिंश्चिद् विवाहे भागं गृहीत्वा पूर्णतया तृप्तः सन् नगरं प्रतिनिवृत्तवान् । यदा च कामस्वामी शीघ्रमनागमनार्थं समयस्य धनस्य च व्ययार्थं तमुपालब्धवान् तदा सिद्धार्थस्तमुक्तवान् – 'माऽऽक्रोशीद् भवान्, मम प्रियमित्र ! । आक्रोशनेन कदाऽपि किमपि नैवाऽधिगतमस्ति । यदि हानिर्जाता तर्हि जायतां नाम, अहमेव तां वोढा । अहं ह्यनेन पर्यटनेन सर्वथा तुष्टोऽस्मि यतस्तेन बहूनां जनानां परिचयो मे जातः, ब्राह्मणेनैकेन सह मैत्री जाता, बालकाः समागत्य ममोत्सङ्गे उपविष्टाः, कृषकैश्च मे निजक्षेत्राणि दशितानि । तथा न केनाऽप्यहं वणिक्त्वेन परिगणितः' ।
'तत्तु सर्वमपि शोभनमेव' – कामस्वामी विमनस्कतया स्वीकृतवान्, 'किन्तु वस्तुतो भवान् वणिगेव । यदि वा किं भवताऽऽनन्दप्राप्त्यर्थमेव पर्यटनं कृतं ननु ?'
'नूनमहं निजानन्दार्थमेव प्रवासं कृतवान्' – सिद्धार्थो हसित्वा कथितवान् । 'किमर्थं न ? अहं बहुभिर्जनैर्नूतनप्रदेशैश्च परिचितो जातः । मया मित्रताया विस्रम्भस्य च सौख्यमनुभूतम् । यद्यहं कामस्वाम्यभविष्यं तदा क्रयणं कर्तुमक्षमोऽहं व्यथितो भूत्वा प्रतिन्यवर्तिष्यम्, तथा मम समयो धनं च नष्टावैव स्याताम् । किन्तु मया बहूनि सुदिनानि यापितानि, बहु शिक्षितं, भूयानानन्दोऽनुभूतः, तथा कोपेनाऽसमीक्ष्यकारितया वा मया स्वस्याऽन्येषां वा क्लेशो नोत्पादितः । यद्यहं पुनरपि कदाचित् तत्र गच्छेयं, नवं व्रीहिराश्यादि क्रेतुं केनचिद् वाऽन्येन प्रयोजनेन, तदा तत्रत्या जनाः सौहार्दन मामाकारयेयुर्मम स्वागतं च कुयुः । तदैव चाऽहं कोपकरणमसमीक्ष्यकारित्वं च मया नैवाऽऽचरितमिति स्मृत्वा सुखीभविष्यामि । भवतु मित्र ! क्लेशकरणेन मा स्वं दुःखीकरोतु । यदा च भवताऽनुभूयेत यत् सिद्धार्थो मे हानि करोति तदा केवलं शब्दमेकं कथयतु, सिद्धार्थः सर्वं त्यक्त्वा स्वीयमार्गे गमिष्यति । तावत्पर्यन्तं किन्त्वावां प्रशस्तौ सुहृदावेव भवामः' ।
'भवान् मम अर्थात् कामस्वामिनोऽन्नमेव खादित्वा जीवति'ति सिद्धार्थं प्रत्याययितुं श्रेष्ठिनः प्रयत्ना अपि विफला जाताः । यतः सिद्धार्थस्योत्तरमासीद्, यत् – 'स स्वीयमेवाऽन्नं भुङ्क्ते । किञ्च, सर्वेऽपि जनाः परस्परमितरस्याऽन्नं भुञ्जन्त एव' । सिद्धार्थः कामस्वामिनः पीडाभिः सर्वथाऽलिप्तः सन् निश्चिन्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154