Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मांसं मदिरां वा सर्वथा न स्पृशति स्म ।
कामस्वामी तेन सह वाणिज्यवार्ता करोति स्म, तस्य पण्यसामग्री पण्यशालां गणनपत्राणि च दर्शयति स्म । सिद्धार्थस्तत्सान्निध्ये बहु शिक्षितवान् । सोऽधिकं शृणोति स्माऽल्पं च वदति स्म । कमलाया शब्दानामनुस्मरन् स कदाऽपि श्रेष्ठिपुरतो भृत्यभावं न दर्शयति स्म, किन्तु तेन सदृशं कदाचित्तु ततोऽपि अधिकं स्वं गणयितुं तं बलात् प्रेरयति स्म ।
कामस्वामिगृहे वसन् स कतिचिद्दिनेष्वेव तद्वाणिज्यं शिक्षितुमारब्धः । यद्यपि, प्रतिदिनं स कमलयाऽऽमन्त्रितो नियतसमये उत्तमवस्त्रोपानहादीनि परिधाय प्राभृतानि च गृहीत्वा तस्या भवनमपि प्राप्नोति स्म । सुन्दर्याः कमलाया वैदग्ध्यपूर्णयो रक्तवर्णयोरोष्ठयोः सकाशात् स बहु शिक्षितवान् । तस्या मृदुकोमलौ हस्तावपि तं बहून् विषयान् शिक्षितवन्तौ । कामस्य विषये सोऽद्याऽपि बालक इवाऽऽसीत् । सोऽतृप्ततयाऽक्षिणी निमील्य तस्य गभीरतामवगाहितुमनाः कामशास्त्रानुसारेण कमलया शिक्षितो यद् - 'अत्र कोऽपि परस्मै सुखमदत्त्वा प्राप्तुं नैव शक्नोति । तथा प्रत्येकं हावभावस्य, प्रत्येकं परिरम्भस्य, प्रत्येकं स्पर्शस्य, प्रत्येकं दृष्टिपातस्य, शरीरस्य च प्रत्येकमङ्गस्य नैजमेव रहस्यं भवति, तच्चाऽवबुध्यमान एवाऽत्र सुखमानन्दं चाऽनुभवेत्' ।
सा तं बोधितवती यत् – 'प्रेमिजनाभ्यां रतिक्रीडानन्तरं परस्परं प्रशंसां कृत्वैव विश्लेष्टव्यम् । ताभ्यां विजयित्वं जितत्वं वा नाऽनुभवितव्यं येनाऽतितृप्तेरवसादस्य वा संवेदनं नोदियात् नाऽप्यसदुपयोगस्याऽनुचिततयोपयुक्तस्य वा हीनानुभूतिर्वाऽप्युद्गच्छेन्मनसि' ।
- एतत्सर्वं शिक्षमाणः स तया चतुरया सुन्दरया च वाराङ्गनया सह स्वं कालमद्भुततया गमितवान् । स तस्याः शिष्यः, तस्याः प्रियः, तस्याः सुहृच्च सञ्जातः । स्वीयवर्तमानजीवनस्याऽर्थं, मूल्यं च कमलायाः सहवासे एव निहितमस्तीति सोनुभूतवान्, न पुनः कामस्वामिनो वाणिज्ये । _____ इतः कामस्वामी तस्य महत्त्वयुतानि पत्राणि आदेशपत्राणि च लिखितुं सूचितवान्, ततश्च शनैः शनैः स तं सर्वेष्वप्यत्यावश्यककार्येषु योजितवान् । स शीघ्रमेव दृष्टवान् यत् - यद्यपि सिद्धार्थो व्रीहेरूर्णाया वा विषयेऽल्पमेवाऽवबुध्यते, पोतवाणिज्यमन्यव्यवसायं वा सोऽधिकं नाऽवगच्छति; तथाऽपि स कार्येषु भाग्यवानस्ति, अव्याकुलतायां स्वस्थचित्ततायां च स श्रेष्ठिनमप्यतिशेते, श्रवणकलायामपरिचितजनानपि प्रभावितान् कर्तुं च तस्य क्षमताऽनन्यसदृशी अस्ति ।
श्रेष्ठी स्वमित्रं कञ्चित् कथितवान् – 'अयं ब्राह्मणो सत्यवणिक् नास्ति नाऽपि च भविष्यति कदाऽपि, तस्य वाणिज्ये सर्वथाऽऽसक्तिर्नास्ति । किन्तु यान् साफल्यं स्वयमेवाऽऽगत्य वृणोति तादृशानामन्यतमः स किञ्चित् सफलतारहस्यं प्राप्तवानस्ति । तच्च रहस्यं शुभे मुहूर्ते तस्य जन्मभवनात्, योगप्रभावात्, श्रमणानां पार्वाद् वाऽधिगतं स्यात् । स सर्वदा वाणिज्येन क्रीडन् इव लक्ष्यते, वाणिज्यं कदाऽपि तन्मनसि स्थानं प्राप्तुं न शक्तं, तं वा प्रभवितुं न शक्तम् । स कदाऽपि हानेर्नैव बिभेति, न कदाऽपि च तदर्थमुद्विग्नो वाऽपि भवति' ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154