Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एवाऽवर्तत । कामस्वामिनस्तु बह्वयः पीडाः आसन् । यदा कश्चन व्यवहारो निष्फलो जायते स्म, यदा हि किञ्चन वस्तुलेखपत्रकं नश्यति स्म, यदा च कश्चनाऽधमर्ण ऋणं प्रत्यर्ययितुं न शक्नोति स्म । कामस्वामी सिद्धार्थं कदाऽपि खेदकरणार्थं कोपेनाऽपशब्दोच्चारणार्थं वोत्तेजयितुं तथा ललाटभङ्गकरणार्थं निद्रानाशार्थं वाऽपि प्रेरयितुं नैव समर्थ आसीत् । यदैकदा कामस्वामी सिद्धार्थमस्मारयत् यद् – भवान् सर्वमपि मत्पादेिव शिक्षितोऽस्तीति तदा सिद्धार्थेनोदितं – 'एतादृशपरिहासेनाऽलम् । अहं भवतः सकाशात् - करण्डमितस्य वस्तुजातस्य किं मूल्यं स्यादिति, ऋणेन धनदाने कियती वृद्धिर्ग्रहीतव्येति वाऽवश्यं शिक्षितवान्, यतस्तत्र भवदधिकारः । किन्तु मम प्रियमित्र ! कामस्वामिन् ! विचारः कथं कर्तव्य इति तु नाऽहं भवत्सकाशात् शिक्षितवान् । तत्तु भवानेव मम पार्श्वे शिक्षितुमर्हति !' ।।
तस्य चित्तं वाणिज्ये सर्वथा निविष्टं नाऽऽसीत् । केवलं कमलायाः कृते धनमर्जयितुं वाणिज्यं सहायकमासीत्, आवश्यकतातोऽप्यधिकं धनं ततः प्राप्यते स्म । तथा, तस्य सहानुभूतिरौत्सुक्यं च सामान्यजनैः सहैवाऽऽसीत्, यतस्तेषां कार्य, सुख-दुःखे, अविचारितकारित्वं च तस्य कृतेऽपरिचितानि सुदूरवर्तीनि चाऽऽसन् । येन केनाऽपि सह सम्भाषितुं, वसितुं, ततः शिक्षितुं तस्य कृतेऽतीव सरलमासीत्, तथाऽपि तस्यैवमपि प्रतिभाति स्म यत् स्वस्मिन् तादृशं किमपि विद्यते यत् स्वं तेभ्यो भिन्नीकरोति । तच्च खलु तस्य श्रमणत्वेन गमितं पूर्वजीवनमासीदित्यपि स्पष्टम् । स जनान् बालिशं पशुवद् वाऽऽचरणं कुर्वाणान् विलोकितवान् । यस्मिन् स स्निह्यति स्म, समकालमेव ततश्च विरज्यते स्म चाऽपि । ते हि धनार्थं, स्वल्पसुखार्थं तुच्छमानार्थं वा प्रयतमानास्ताम्यन्तः पलितशिरोभवन्तश्च तेन दृष्टाः । एतच्च किल सर्वमपि तस्य कृतेऽतीव क्षुद्रमासीत् । स तान् परस्परमाक्रोशत युध्यमानांश्च दृष्टवान् । स तान् तेषु दुःखेषु परिदेवमानान् दृष्टवान् येषु सत्सु श्रमणाः केवलं हसन्ति, तथा तासु हानिषु व्यथमानान् दृष्टवान् याः श्रमणाः सर्वथा नैव गणयन्ति ।
जना यत्किञ्चिदप्यानीय ददति स्म तत् सर्वं स स्वीकरोति स्म । यदि कश्चन क्षौममानीय विक्रयणार्थं ददाति स्म तदा तदपि तस्य स्वीकार्यमासीत् । ऋणार्थमागतोऽपि जनस्तस्याऽभिमत एवाऽऽसीत् । तथा कश्चन भिक्षुकः, यो हि श्रमणेभ्यस्तु अधिकसम्पन्न आसीत्, आगत्य होरापर्यन्तं स्वीयदारिद्मविषये वदन्नपि तस्येष्ट एवाऽऽसीत् । स क्षौरकर्म कर्तुमागतेन नापितेन, कदलीफलविक्रेत्रा सह, धनिकेन वाऽपि केनचिद् वणिजा सह समानतयैवाऽवर्तत ।
यदि कदाचित् कामस्वामी तत्पाबें समागत्य स्वीयसमस्या वर्णयति स्म कस्यचिद् व्यवहारस्य कृते वोपालभते स्म तदा स सकर्णतया सावधानं च शृणोति स्म, तत्कथने विस्मयं प्रदर्शयति स्म, तद् बोद्धं प्रयतते स्म, यत्र चाऽऽवश्यकं तत्र किञ्चिद् अनुमनुते स्माऽपि, ततश्च प्रयोजनवशादागतेनाऽऽगन्तुकेन सह संलपितुमारभते स्म ।
बहवो जनास्तत्समीपमागच्छन्ति स्म, केचन वाणिज्यार्थं, केचन तं वञ्चयितुं, केचन तं श्रोतुं, केचन तस्य सहानुभूति प्राप्तुं, केचन च तस्य मार्गदर्शनं प्राप्तुम् । स मार्गदर्शनं करोति स्म; सहानुभूतिं दर्शयति
६५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154