Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
परिणतज्ञानी कीदृशः स्यात् ?
स गभीरः सरलो नीतिमान् सहिष्णुश्च स्यात् । यथा
गभीरः
यस्य चित्ते ज्ञानं परिणतमस्ति स सागर इव गम्भीरः स्यात् । केनाऽपि स्वप्रतिष्ठा खण्डिता, केनाऽप्यवमाननं कृतं, केनाऽपि निन्दा कृता, केनाऽप्याक्षेपः कृतः कस्याऽपि दुर्बलताऽज्ञानता च दृष्टा, कस्याऽपि स्खलना जाता - इति सर्वमपि दृष्ट्वा ज्ञात्वा चाऽपि सहते, किन्तु न निन्दति, न च क्रुध्यति ।
-
-
ज्ञानी सरल: स्यात् । मायाप्रपञ्चादिरहित एव स्यात् । तस्य मनसि वचसि काये चेति योगत्रये - ऽप्यैक्यं स्यात् । ज्ञानस्य फलं सरलता, न च वक्रता । हन्त ! अद्य सर्वं विपरीतत्वेन दृश्यते । ज्ञानं त्वबुधजनवञ्चनस्य साधनं स्यात् इति प्रतिभाति । बुद्धिचातुर्यस्योपयोगः कस्याऽपि जनस्य साहाय्यार्थं क्रियते तर्हि तत् सफलं, किन्तु कस्याऽपि कार्ये विघ्नकरणार्थं बुद्धिर्व्याप्रियते यदा तदा न तज्ज्ञानं (चातुर्यम्) अपि त्वज्ञानमेव ज्ञेयम् । पठितजनैर्यावती मायाक्रीडा क्रियते सा त्वनन्यसाधारण्येव ।
भो ! एकोनविंशं तीर्थकरं मल्लिनाथप्रभुं स्मर । पूर्वभवे धर्मक्रियायां मित्रैः सह माया कृता । मायाकरणे शुभभाव एवाऽऽसीत् तथाऽपि माया तु मायैवोच्यते, तत्र न कोऽपि रक्षणोपायोऽस्ति । अद्य प्रशस्तमाया करणीया - इति केचिद् वदन्ति, किन्तु तन्नोचितम् । यतस्तद् यद्युचितं स्यात्तर्हि भगवान् मल्लिनाथः स्त्रीरूपेण तीर्थकरत्वं न प्राप्नुयात् । ज्ञानस्य फलमेतदेव यत् सर्वेष्वपि व्यवहारेषु सरलता स्यात् ।
ज्ञानी नीतिमान् स्यात् । मानवीयविकासस्य मूलमस्ति नीतिरेव । तस्या नीत्याः संस्कारा अवाप्यन्ते शालातः । किन्तु हन्त ! तत्रैव यद्यनीतिरसत्यमसदाचारश्चेत्यादिकानि कुकृत्यान्याचर्यन्ते तर्हि जनैः कुतो नीत्यादिकं शिक्ष्येत ? अद्य कस्मिन्नपि स्थाने नीतिमान् जनो न दृश्यते । यदि कदाचित् कोऽपि सज्जनो नीतिमाचरितुं प्रयतेत तर्हि समीपस्था जना एव तं त्रासयेयुः ।
पूर्वमेतादृश: काल आसीद् यत्, शालायां पुस्तकस्थितज्ञानस्य मूल्यं नाऽऽसीत्, न च 'सी.ए., एम.बी.ए., एम.बी.बी.एस. इत्यादिबिरुदानामपि मूल्यमासीत् किन्तु नीतिमत्तायाः सदाचारस्य मानवता - याश्चैव मूल्यमासीत् । शालास्वपि शिक्षणस्य व्याजेनैतादृशानां गुणानां विकासे एव महत्त्वं दीयते स्म । इदानीं तु शालायां ज्ञानमुताऽज्ञानं पाठ्यते इत्येव प्रश्नोऽस्ति ।
एवं ज्ञानी, द्वेषी क्रोधी पक्षपाती तिरस्कारवृत्तिमाँश्च न स्यात् । यत एते तु दोषाः सन्ति, ज्ञानं गुणोऽस्ति । यज्ज्ञानेन चित्ते विकारा दुर्गुणाश्चोत्पद्यन्ते तद् ज्ञानमेव नोच्यते । उक्तं च
तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः ।
तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥
Jain Education International
बन्धो ! गोशालको दृष्टिपथमायाति । स भगवतो महावीरस्य शिष्य आसीत् । स भगवत: सकाशादेव बहु ज्ञानं प्राप्तवान् किन्तु तज्ज्ञानं न परिणतं जातं, ततश्चित्ते उन्मादो जागृतः । तदुन्मादवशेन
४९
-
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154