Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
यदा मानवो वृद्धो भवति, तदा तस्य जीवनादुल्लासा आह्लादाश्च दूरीभवन्ति । तेन प्रतीयते यत् तस्य जीवनं नीरसं जातमस्ति । यथाऽऽम्रस्य शाखा शुष्यति तस्यां च कोकिला समागत्याऽऽलापान्न करोति, तेनैव प्रकारेण जरठस्य जीवनेऽप्यनुरागं प्रबोधयिता कोऽपि नाऽऽगच्छति । ये जनास्तस्य यौवने पौन:पुन्येनाऽऽगत्य तस्य संलापैः सानन्दा भवन्ति स्म, तेऽधुना नैवाऽऽगच्छन्ति । या प्रेमिका हरितयवसे समुपविश्य तया साकं सप्रणयमालपति स्माऽधुना साऽपि नाऽऽयाति । तदेत्थं प्रतीयते यथा मनसि भयावहकृष्णरजन्याः साम्राज्यमावृतं भूयात् ।
संसारोऽयमेकमेतादृशं बन्धनमस्ति, यस्मिन् बद्धौ जनः सदैव क्षुभ्यति सततम् । अत्र जनाः स्वार्थे निमग्नाः सन्ति निरन्तरम् । स्वार्थपूरणानन्तरं तु उपेक्षन्ते । संसारेऽस्मिन् यथार्थत्वं तु नैवाऽस्ति । यथा कल्पनस्यैकोऽगाधमहातटाको वर्तते विश्वमिदमस्य भयङ्करत्वेन मानवस्य लघुकलेवरं प्रतिक्षणं भयान्वितं भवति । मनुजाय किमपि हरितं सम्बलं नोपलभ्यते । अन्ततस्तेन स्वपरमेश्वराय प्रार्थनाया विधानमपेक्ष्यते । स आत्मनि चेतनताया अनुभूतिं विधास्यन् कदापि परमात्मानं न विस्मरेत् ।
सर्वप्रथमं सुन्दरतमं प्रियमवलोक्य मनसि विचारो विद्योतते यत्तदेतदपूर्वं किमर्थं नाऽवलोकितं मया? आतपस्य निर्मलत्वेन निखिलं जगत् सौन्दर्यसमन्वितं प्रतीयते । किं धरा, किं गगनं, किं वनस्पतयः, किं प्रसूनानि - निखिलान्येवाऽपूर्वमनोज्ञानि प्रतीयन्ते । दूरं दूरं यावदाप्यायितहरिद्राभसर्षपा इत्थं प्रतीयन्ते, यथा पीताभतरङ्गानां नर्तनं भवति । यदा प्राकृतिकातप इयान् मनोज्ञो भवति यत्तस्य प्रभावेण सर्वाण्येव वस्तूनि सुन्दराणि प्रतीयन्ते, तहि किं मानव इयान्मनोज्ञो भवितुं न शक्नोति, यत्तस्य प्रभावेण वसुन्धरा, वनस्पतयः, कुसुमानि सर्वाण्येव भव्यानि भवितुं शक्नुयुः ?
जीवनमेतद् विनश्वरमस्ति । क्षणमात्रस्याऽपि प्रत्ययो नास्ति । अतो मनुजेनाऽहङ्कारो न करणीयः । एषां दशदिवसानां जीवने. मनुष्येण स्वसमयो निरर्थकं न विनष्टः करणीयोऽपि तु प्रभोर्नामस्मरणेन यापयितव्यः । बाह्यप्रदर्शनेन छामिकतया च किमप्यनुष्ठानस्याऽऽवश्यकता नास्ति । मनसो वैशयेनैव प्रभो म्नस्तत्त्वमवगन्तुं शक्यते । शास्त्राणां वेदानां स्मृतीनामध्ययनादिकैः सत्यभाषीभवितुं न शक्नोत्यपि तु मूलरूपस्य प्रभुनामक-शब्दस्मरणमात्रेणैव यथार्थं सुधीर्भवितुं शक्नोति मानव इति ।
-x
४७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154