Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 55
________________ आस्वादः प्रगाढ़विचाराः डॉ. मदनलालवर्मा यथा सागरस्य समुत्थितास्तरङ्गा अन्तरिक्षालम्भनस्य प्रयासं कुर्वन्ति, तेनैव प्रकारेण मानवस्येहा बलवत्यो भूत्वा संसृतेः सकलानन्दप्रापणस्य प्रयासं कुर्वन्ति । वृत्तमिदं कुत्रपर्यन्तं सत्यमस्ति, इत्यत्र चिन्तनस्याऽऽवश्यकता वर्तते । निजनिर्दिष्टस्थानं प्रापणायाऽस्माभिः कण्टकाकीर्णमार्गेष्वपि प्रचलनीयं भवेत्तर्हि विकलैर्न भवतिव्यम् । प्रणयः प्रसह्य केनाऽपि साकं न विधातुं शक्यते । इदं हि पूर्वसंस्कारगतभावनाधारेण जायते । प्रणयार्थं काश्चन विशिष्टाः परिस्थितयोऽपगम्याऽऽयान्ति । तासु दशासु बद्धो जनः स्वत एव प्रणयमार्गेऽग्रेसरो भवति । उपवने विकसितानां पुष्पाणां सुरभिरस्मभ्यमिदं दिष्टं प्रेषयति यद् यूयमपि स्वचरित्रस्य सौरभं सर्वत्र प्रसारयथ, तथा यथाऽन्ये जनास्तदनुभूय हर्षिता भवेयुस्तथा च युष्मदर्थे सद्विचाराणां सृष्टिं कुर्युः । ___ अस्मान् स्वतोऽस्य वृत्तस्य स्मरणं न जायते यद् वयं कुत्र गच्छामः । परिस्थित्या समाधानं विधाय गन्ता जनः कदाचिद् वञ्चितो भवति । परिणामस्य विषये शोचनस्याऽपेक्षया कर्मलीनेन भवितव्यम् । येन ब्रह्मणा जन्म प्रदत्तं, तस्याऽधिकचिन्ता वर्ततेऽस्मभ्यम् । याथार्थ्येन तेनैव प्रकारेण, यथा कस्यचिदबोधस्य शिशोश्चिन्तनं तस्य जननी करोति । दीपके शलभाः स्वत आगत्य वारं वारं ज्वलन्ति । अनेनाऽस्माभिरपि चिन्तनीयं यद् वयमेषां हितायाऽऽत्मानं समर्पयेम । 'परहितसमा निष्ठा न भ्रातः !' एतस्य विचारस्याऽऽत्मसात्कर्ता जनोऽन्तरात्मनि सानन्दो वसति । असावनेन शान्ति लभते । अन्ये जना यथाकामं किमपि चिन्तनं कुर्युरस्माभिः स्वकर्त्तव्ये आस्तिकबुद्ध्या पुरतो गमनीयम् । ४६ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154