Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
स्वभावादेव च प्रथयन्ति कविप्रकाण्डगन्धवाहा दिक्षु विदिक्षु च गुणवद्गरीयोयशःकर्पूरपूरसौरभप्रतिमानम् । यतो नहि विकसत्तरमम्भोजन्म अधर्मकर्मकृज्जन्मवल्लभवलक्षचक्षुरनध्यक्षलक्ष्म्याः स्वस्मिन्निवासाय प्रार्थनाचाटूनि घटयदुपलभ्यते, किन्तु गुणगरिष्ठश्रेष्ठस्थानतया तत्रैव वावसीति सा । न चाऽपि राजद्राजीवराजी रणरणकारकारिमधुकरनिकराकारणाय क्वचनाऽप्यरियरीति, किन्तु स्वयमेव तद्गन्धसौरभलोलुपास्ते मधुपा गायन्त इव तद्गुणनिकरान् झणझणाकारिरावप्रकारैः परिवरीव्रतः सर्वतः तदलङ्करणभूयं सम्प्रतिपनीपद्यन्ते । अनभ्यर्थिता अपि च स्वस्यैवोद्यच्छोभाविशेषसमुन्मेषाय तथैवाऽर्हतया नरविसरोत्तमा अपि निवेशयेरंस्तां निजोत्तमाङ्गभागे स्वेनैव च वितन्तन्यन्ते तद्गन्धसौरभपूरं सर्वतो दिगुदरविवरेषु गन्धवाहाः । तस्माद्गुणानेवेह बंहीयोमहिमप्रारभाराऽप्रतिहननहेतुतया निरूपयामः खल्वपि ।
किञ्च, वचनमपि गुणवन्मुखादेव समुत्थितं सम्यगादेयतामादधानमादेद्रीयन्ते विबुधधुरीणाः । तथा चाऽवादिषुर्विदुराः -
क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातुः स्तनात्पिबतः ॥१॥ तद्वत्सुभाषितमयं क्षीरं दुश्शीलभाजनगतं तु ।
न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पतितम् ।।२।। तस्मादनणीयः श्रेयःसाधनप्रगुणगुणानुरागादिगुणोपार्जन एवाऽऽहितावधानैर्भवितव्यं स्वहितैषिभिर्मनीषिभिः । त एव चाऽर्हन्ति श्रेष्ठशिष्टगोष्ठीमपि । तेनाऽथ अर्हथ प्रथीयःसद्गुणानुरागासङ्गितया यूयमिदानीमिमाम् । वयमपि च सम्यगुपासितश्रीगुरुचरणसरोजाऽप्रतिमप्रसादादधिकारिण एवाऽत्र । यतो द्रढीयोद्रढिमजडिमप्रचण्डिमावष्टब्धचेतस्का अपि श्रीमद्गुरुवदनोद्गच्छद्वचनप्रपञ्चोद्यद्दिनकरकरनिकरप्रतिहतान्तरतमःपटलपटिमतया समबोबोधिष्टाऽक्षोदीयोलक्षणाप्रतिमप्रमाणच्छन्दोऽलङ्कृत्यादिप्रशस्तशास्त्राणि । यतो नास्तीह तत्किञ्चिदवद्यं, महतां चरणपरिचर्यापि यत्पाटने न पटुपटिमानं प्रकटयति, घटयत्येवेयं दुर्घटोत्कृष्टविशिष्टश्रीघटानामपि सण्टङ्कम् । विघटयत्येव च स्फुटं कटतटानीव घटपेटकं विकटतरदुरितकोटीरपि । सामान्यजनेष्वपि किञ्चिद्गरिष्ठपुण्यस्थविमवशात्तुष्टिपुष्टिमुपगताः श्रीगुरुपादा जायन्ते एव जगज्ज्येष्ठस्थेष्ठसम्पत्साधनपटिष्टाः । यदुक्तं -
गुरुयाणं चलणसेवा न निप्फला होइ कइया वि ।
ततः सुखेनैव तथाविधधिषणासाधिमविधुरा अपि श्रीमद्गुरुगुरुप्रसादमध्यासीना अध्यगीष्महि, अधीमहे चाऽद्याऽपि विशुद्धबुद्धिप्रबोध्यमेध्यशास्त्राणि । तथा तत्तद्वस्तुव्यतिकरेषु तत्त्वातत्त्वविचारणचतुरचेतोवृत्तितामपि प्रतिकलं कलयामः । नहि श्रीमद्गुरुप्रसादकल्पद्रुमप्रभाववैभवस्येयत्ता काऽपि समस्ति । तथा स्वभावात् श्रीगुरूपदेशाच्च गुणवत्प्रेक्षणप्रहर्षिणोऽपि वरिवृत्मः । तथा तथाविधबुधप्रष्ठप्रेष्ठवरिष्ठगोष्ठीरसिकस्वान्ततामपि देध्रीयामहे । अतो युक्तिमत्येव सम्प्रत्यावयोरेषा शास्त्रगोष्ठी । ततो विधीयते क्षणम् ।
[अनुवर्तते]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154