Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 63
________________ 'एष गोविन्दसदृश एवाऽस्ति' इति चिन्तितवान् सिद्धार्थः । 'येऽपि मां मार्गे मिलन्ति ते सर्वेऽपि गोविन्दतुल्या एव, सर्वेऽपि कृतज्ञाः सन्ति, सर्वेऽपि च ते स्वयमेव धन्यवादानहन्ति । सर्वेऽपि मे सहयोगिनो भवितुमिच्छन्ति, मम मैत्री वाञ्छन्ति, अधिकमविचारयन्तश्च मम वचनमनुवर्तितुमिच्छन्ति । ननु जना हि शिशतुल्या भवन्ति' । मध्याह्ने स कञ्चिद् ग्राममतिक्रामन्नासीत् । मृण्मयकुटीराणां पुरतो रथ्यासु बालकाः क्रीडन्त आसन् । ते हि प्रस्तरखण्डैः गुलिकाभिश्च खेलन्त आसन् । सकोलाहलं ते परस्परं युध्यन्ते स्माऽपि । किन्तु यदा हि श्रमणस्तेषां दृष्टिपथं प्राप्तस्तत्क्षणमेव सर्वेऽपि भयं प्राप्य धाविताः कुत्रचिच्च निलीनाः ।। ग्रामप्रान्ते चाऽनुमार्गमेव जलस्रोत आसीत् । तत्कूले च काचित् तरुणी किञ्चिदवनम्य वस्त्राणि क्षालयन्त्यासीत् । सिद्धार्थेन तदभिवादने कृते सा शिर उन्नम्य सस्मितं तं दृष्टवती । तस्या अक्षिणी भ्राजमाने आस्ताम् । यथोपचारं साशीर्वचनं स तां नगरमार्गविषयिकी पृच्छां कृतवान् । तेन सा तत उत्थाय तत्समीपमागता । सुन्दरे वदने तस्याः क्लिन्नावधरौ स्फुरन्तावास्ताम् । तेन सह वक्तुमुत्सुका सा तं – 'किञ्चिदशितं वे'ति पृष्टवती, तथा 'किं तत् सत्यं यत् श्रमणा वनेषु एकाकिन एव स्वपन्ति ? किं तेषां स्त्रियं परिग्रहीतुमधिकारो नास्ति वा?' - इत्यपि सा पृष्टवती । ततस्तया स्वीयो वामपादः समुत्थाप्य दक्षिणे पादे स्थापयित्वा तादृशोऽङ्गविक्षेपः कृतो यं काचित् कामातुरा स्त्री भोगार्थं पुरुषमामन्त्रयमाणा करोति, यश्च कामशास्त्रेषु 'वृक्षावरोहण'मिति सज्ज्ञया वर्णितोऽस्ति । एतेन सिद्धार्थः स्वीयाङ्गेषूत्तेजनमनुभूतवान्, रात्रौ दृष्ट स्वप्नं च स्मृत्वा किञ्चिदवनम्य स तस्याः कपिशवर्णं चूचुकं चुम्बितवान् । तत ऊर्ध्वं पश्यन् स तस्याः स्मितमयं वासनापूर्णं च वदनं विलोकितवान् । तस्या अर्धनिमीलतनेत्रयोः अत्युत्कटभोगप्रार्थना विलसति स्म । सिद्धार्थोऽपि स्वमनसि तामेवोत्कटभोगेच्छामनुभूतवान् । किन्त्वद्यावधि तेन स्त्री स्पृष्टा नाऽऽसीदित्यत आलिङ्गनं कर्तुमुत्सुकोऽपि स किञ्चिदिव साशङ्को जातः । तस्मिन्नेव क्षणे स स्वीयमान्तरं वचनं श्रुतवान् - 'नही'ति । ततश्च तस्यास्तरुण्या मुखात् सर्वमपि आकर्षणमदृष्टं जातमिव । अधुना तत्र केवलं कामार्त्तस्त्रियाः सतृष्णो दृष्टिपात एवाऽवलोक्यते स्म । स मृदुतया तस्याः कपोलं परामृशन् सत्वरमेव निराशायास्तस्याः पुरस्तादेव वंशवनेऽदृश्यो जातः ।। सायङ्कालात् पूर्वमेव सिद्धार्थः किञ्चिन्महन्नगरं प्राप्तः । स हृष्ट आसीत्, यतस्तस्य जनैः सह संवसितुमभिलाष आसीत् । स बहुकालं यावद् वनेषूषित आसीत्, गतरात्रौ च स नाविकस्य वंशमयोटजे दीर्घकालानन्तरं प्रथमवारमेव छदिषोऽधस्तात् शयितवानासीत् । नगराद् बहिः, एकत्र सुन्दरे उपवने करण्डं गृहीत्वा गच्छन्तं परिचारकाणां समूहं स दृष्टवान् । तेषां च मध्ये चतुर्भिर्जनैरुह्यमानायामलङ्कृतायां शिबिकायां रक्तवर्णे उपधाने उपविष्टा तेषां स्वामिनी आसीत् । सिद्धार्थ उपवनद्वार एव स्थिरीभूय तत् सर्वमपि निरीक्षितवान् । स तां शिबिकास्थितां स्त्रियमप्यवलोकितवान् । ५४ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154