Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कमलायाः पार्वे तं मुक्त्वा स गतवान् ।
'ह्य उपवनप्रवेशद्वारि भवतैव मेऽभिवादनं कृतं खलु ! ?' इति कमला तं पृष्टवती। . 'आम् ! मयैव ह्यो भवतीं दृष्ट्वाऽभिवादनं कृतमासीत्' । .
'किन्तु ह्यो भवतः केशा दीर्घा आसन् मुखे च दीर्घकूर्चमासीत्, तथा मस्तकमपि सरजस्कमासीत् खलु ?'
'सम्यङ् निरीक्षितं भवत्या । किन्तु ह्यो भवती ब्राह्मणपुत्रं सिद्धार्थं दृष्टवती यः श्रमणो भवितुं गृहत्यागं कृतवान् वर्षत्रयं च श्रमणीभूय स्थितवान् । अद्य तु, मया त्यक्तोऽस्ति स मार्गः । अस्मिन्नगरे आगतोऽहं सर्वप्रथमं भवतीमेव नयनविषयीकृतवान् । अद्याऽहं भवत्यै कथयितुमागतोऽस्मि यत् - भोः कमले ! भवत्येव प्रथमा स्त्री यस्याः पुरतः सिद्धार्थो नेत्रे अनवनाम्य सम्भाषितवान् । इतः परं यस्याः कस्याश्चिदपि सुन्दाः पुरतोऽहं नेत्रे नैवाऽवनामयिष्यामि' ।
कमला स्मितवती मयूरपिच्छनिर्मितेन व्यजनेन च क्रीडन्ती पृष्टवती – 'किं भवान् एतावदेव कथयितुं आगतोऽस्ति वा सिद्धार्थ !?'
'भवत्यै एतत् कथयितुं, सौन्दर्यविषये च भवतीमभिनन्दितुमागतोऽहमस्मि । तथा यदि भवती अप्रसन्ना न भवेत् तर्हि अहं भवतीं मम मित्रीभवतुं यस्यां च कलायां भवती विदग्धा तस्याः शिक्षणार्थं मे गुरूभवितुं निवेदयितुमिच्छामि, यतोऽहं तस्यां कलायां सर्वथाऽनभिज्ञः ।
श्रुत्वैतत् कमलोच्चैर्हसितवती कथितवती च – 'अरण्यवासी कश्चन श्रमणो मां समागत्य किञ्चित् शिक्षितुमिच्छेदिति तु कदाऽपि नैव चिन्तितं मया । तथा, दीर्घकेशयुतो जीर्णवस्त्रधारी च श्रमणः कदाऽपि मत्समीपे नाऽऽगतः । यद्यपि बहवो युवकाः ब्राह्मणपुत्राश्चाऽपि मदन्तिकमागच्छन्ति, किन्तु ते सर्वेऽपि रुचिरवस्त्राणि परिधाय, सुन्दरोपानहौ च धारयित्वाऽऽगच्छन्ति । तेषां केशाः सुगन्धिताः भवन्ति कोषाश्च धनभृता भवन्ति । भोः श्रमण ! एवंरीत्या ते युवानो मदन्तिकमागच्छन्ति' ।
सिद्धार्थ उक्तवान् – 'मयाऽप्येतावता भवत्याः सकाशात् शिक्षितुमारब्धम् । ह्य एव अहं किञ्चित् शिक्षितवान् । मम कूचं तावदपनीतमेव, केशाश्चाऽपि तैलाक्ताः प्रसाधिताश्च । अधुना बह्ववशिष्टं नास्ति सुन्दरि !, केवलं रुचिरवस्त्रोपानहो धनभृतश्च कोषः - इत्येतदेव ननु ! सिद्धार्थेन त्वितोऽप्यधिककठिनवस्तून्युपलब्धुं प्रयतितं प्राप्तानि चाऽपि तानि । अतः किमर्थमहं तत्र प्रयत्नं न कुर्यां - यदर्थं ह्यो मया निश्चितं - भवत्याः मैत्री प्राप्तुं भवत्सकाशाच्च कामकलाया आनन्दं शिक्षितुम् ? अहं भवत्या योग्यो विद्यार्थी भविष्यामि कमले ! यतो यद् भवत्या शिक्षयितव्यमस्ति ततोऽपि मया कठिनतरं शिक्षितमस्ति । अतो वदतु सुन्दरि ! उत्तमवस्त्रादिहीनो धनरहितश्चाऽपि प्रसाधितकेशः सिद्धार्थो भवत्या दृष्टौ उचितोऽस्ति न वा ?'
कमला हसितवती । तया कथितं – 'नैव । सोऽधुनाऽपि अयोग्यः । तेन अवश्यं वस्त्राणि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154