Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
द्घटमानानि सन्ति । एतत् कथं भवतीति ऊहितुं न शक्नोमि । किं भवत्पार्श्वे किञ्चन मन्त्रादिकमस्ति वा ?'
T
सिद्धार्थेनोक्तं
'ह्य एव मया कथितमासीद् यदहं विचारयितुं प्रतीक्षितुं निराहार: स्थातुं च शक्नोमि । किन्तु भवत्या तत्सर्वमनुपयोगि मत्वाऽवगणितम् । किन्तु कमले ! भवत्येव द्रक्ष्यति यत् तत्सर्वमपि सर्वथोपयोगि । भवती ज्ञास्यति यद् - एते मूर्खाः श्रमणा अरण्ये वसन्तोऽपि बहून्युपयोगीनि वस्तूनि शिक्षन्ते जानन्ति च । परह्योऽहं सर्वथाऽनभिज्ञोऽप्रसाधितश्च भिक्षुक आसीत् । ह्यस्तु मया कमला चुम्बिता । इतः परं चाऽहं श्रेष्ठीभविष्यामि धनमुपार्जयिष्यामि, यानि च वस्तूनि भवत्यै मूल्यवन्ति प्रतिभान्ति तेषामहं स्वाम्यं प्राप्स्यामि' |
—
‘सत्यमिदम्’ - कमला स्वीकृतवती । 'किन्तु मया विना भवान् किं वाऽकरिष्यत् ? यदि कमला भवन्तं सहायं नाऽकरिष्यत् तदा भवान् कुत्र वाऽस्थास्यत् ?'
-
'प्रिये कमले !' - सिद्धार्थ उक्तवान् – 'यदाऽहं भवत्याः समीपे उपवने समागतस्तदा मया प्रथमं पदं न्यस्तम्। श्रेष्ठायाः सुन्दर्याः सकाशात् कामकला शिक्षितव्येति मे ध्येयमासीत् । यदा हि मया ध्येयमिदं निश्चितं तदैवाऽहं जानामि स्म यदेतदहं सम्पादयिष्याम्येवेति । मयैतदपि ज्ञातं यदत्र भवती मे सहायं करिष्यत्येव, तद्धि मया भवत्याः प्रथमदृष्टिपातेनैव ज्ञातमासीत् तत्रोपवनद्वारे' ।
'अथ यदि नाऽहं भवत्साहाय्यं कर्तुमिच्छामकरिष्यत् तदा ?'
'किन्तु भवत्या सेच्छा कर्तव्यैवाऽऽसीत् । शृणु कमले ! यदा वयं जले पाषाणखण्डं क्षिपामस्तदा स खण्ड: त्वरितमेव जलस्य तलं प्राप्नोति । सिद्धार्थोऽपि यदैकं ध्येयं लक्ष्यं वा निश्चिनोति तदाऽपि एवमेव भवति । यद्यपि सिद्धार्थो न किञ्चित् करोति, स हि केवलं प्रतीक्षते, चिन्तयति, उपवसति च तथाऽपि जलतलं प्राप्तस्य प्रस्तरखण्डस्येव, स किञ्चिदपि न कुर्वाणश्चेष्टमानो वा जगतोऽपि व्यापाराणां पारं प्राप्नोति, ननु तत्राऽऽकृष्यते सः, स्वं चाऽऽकृष्यमाणं नैव रुणद्धि । स हि स्वीयध्येयेनैवाऽऽकृष्यते, यतः स स्वीयमनसि ध्येयविरुद्धं न किञ्चिदपि प्रवेष्टुमनुमन्यते । इदमेव सिद्धार्थः श्रमणानामन्तिके शिक्षितवान् खलु ! | मूर्खजना एतदेव चमत्कारमिन्द्रजालं वा कथयन्ति एतच्च पिशाचसाध्यमिति मन्यन्ते । किन्तु पिशाचा न किञ्चिदपि कर्तुं शक्ताः । ननु पिशाचा एव न सन्ति । प्रत्येकं जनश्चमत्कारं कर्तुं शक्तः, प्रत्येकं जनः स्वं ध्येयं प्राप्तुं समर्थो यदि स चिन्तयितुं प्रतीक्षितुमुपवसितुं च शक्नुयात्' ।
कमला तमैकाग्र्येण श्रुतवती । तस्यै तत्स्वरो रोचते स्म, तस्य नेत्रान्निर्गच्छन् प्रकाशो रोचते स्म । 'ननु मित्र ! यथा भवान् वदति तथाऽपि स्यात्' सा मृदुतयाऽवदत्, ‘अथवा ननु सिद्धार्थः सुरूपोऽस्ति, तस्य दृष्टिपातः स्त्रियः प्रीणयति, स सौभाग्यवान् अस्ति - इत्येतदर्थमपि तत् स्यात्' ।
' एवं भवतु मे शिक्षिके ! मम दृष्टिपातो भवतीं सदैव प्रीणयतु, सौभाग्यं च सदाऽपि भवत्या मध्यमेन मामनुसरतु' - इति वदन् स तां चुम्बितवान्, तस्याश्च सकाशान्निर्गतवान् ।
Jain Education International
—
-
६०
-
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154