Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 68
________________ 'निश्चितमहं जानामि । बहवो जनास्तज्जानन्ति' । 'नैव, बहवो जनास्तन्न जानन्ति । अहमेव न जानामि । भवानेतज्जानाति - इत्येतदत्यन्तं सुन्दरं, नूनं सुन्दरम् । कदाचिन्मन्त्रोच्चारणमप्यावश्यकं भवेत्' ।। तदात्वे एव कश्चन परिचारकस्तत्राऽऽगतः, स्वामिन्याः कर्णे च किञ्चित् कथितवान् । 'कश्चन मां मिलितुमागतोऽस्ति । त्वरया भवानितो निर्गच्छतु । न कश्चिदत्र भवन्तं पश्येत् । अहं भवन्तं श्वो द्रक्ष्यामि' - कमला कथितवती । ततः सा तं सेवकं 'पवित्रब्राह्मणायाऽस्मै शुभ्रमेकं वस्त्रं देय'मित्यादिष्टवती । किमत्र प्रचलतीति अजानन् सिद्धार्थस्तेन सेवकेन दीर्घमार्गणैकत्र लतामण्डपे नीतः, शुभ्रं वस्त्रं च दत्त्वा वनगहने नीत्वा, 'केनाऽप्यदृष्टतयैवेतः शीघ्रं निर्गच्छतु' - इति च स्पष्टं सूचितम् । सिद्धार्थोऽपि सन्तुष्टतया यथासूचनं कृतवान् । वनगहनाच्च शान्त्यैव स्वं मार्गं प्राप्य द्व उपवनाद् बहिरागतः । ससन्तोषं स नगरं प्रतिनिवृत्तो वस्त्रेण सह । एकस्मिन् सत्रागारेऽन्यैभिक्षुकैः सह सोऽपि मौनमेवाऽन्नं याचितवान् रोटिकामेकां च प्राप्तवान् । 'मन्ये, श्वो मया याचनीयं नैव भवेत्' - इति स विचारितवान् । अथ च सहसैव तन्मनसि गर्वभावना समुद्भूता यदिदानीं स श्रमणो नाऽऽसीत् । अतस्तस्याऽन्नयाचनं नोचितम् । स तां रोटिकां शुने दत्तवान् स्वयं च निराहार एव स्थितः । 'अत्र जीवनं सरलमस्ति' – सिद्धार्थो विचारयन्नासीत् । 'नैवाऽस्ति काठिन्यमत्र । यदाऽहं श्रमण आसं तदा सर्वमपि कठिनं क्लेशकरं प्रान्ते च निराशाजनकमासीत् । अधुना तु सर्वमपि सरलमस्ति, कमलया चुम्बनद्वारा प्रदत्तस्य शिक्षणस्येव सर्वं सरलम् । अधुना मम धनेन वस्त्रैश्चैव प्रयोजनमस्ति । तानि हि निद्राभङ्गमकृत्वैव प्राप्तुं सर्वथा शक्यानि' ।। __ सिद्धार्थेन कमलाया नगरस्थितस्य भवनस्याऽन्वेषणं जनान् पृष्ट्वा पूर्वमेव कृतमासीत् । अतो द्वितीयदिने स तत्रैव गतवान् । तं दृष्ट्वा तयोक्तं - 'सर्वमपि सुस्थमस्ति । कामस्वामी भवन्तं द्रष्टुमिच्छति । स हि समस्तेऽपि नगरे एव धनाढ्यः । यदि भवांस्तं प्रीणयेत् तदा सोऽवश्यं भवते कार्यं दद्यात् । किन्तु भोः श्रमण ! किञ्चिच्चातुर्यं दर्शयतु । मयाऽन्यद्वारा भवतो नाम तस्य सूचितमस्ति । स हि अतीव समर्थोऽस्ति अतस्तेन सह मित्रभावेन वर्तताम् । किन्तु तत्सकाशेऽत्यधिकं नम्रत्वमपि मा दर्शयतु । अहं भवन्तं तत्तुल्यमेव द्रष्टुमिच्छामि न तु तस्य भृत्यम् । अन्यथा मम सन्तोषो नैव भविता । कामस्वामी हीदानी वृद्धो निरुत्साहश्च जायमानोऽस्ति । यदि भवांस्तं प्रीणयेत् तदा भवन्तं स विश्वासभाजनं करिष्यत्येव' । सिद्धार्थः सस्मितं तस्यै स्वकृतज्ञतामदर्शयत् । यदा च तया ज्ञातं यद् - अनेन ह्योऽद्य वाऽपि न किञ्चिदशितं तदा तया फलानि अन्नं चाऽऽनाय्य तस्य भोजितम् । 'भवान् नितरां सौभाग्यवानस्ति' – गमनकाले कमला तमुक्तवती । 'भवत्कृते यथाक्रमं द्वाराण्यु Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154