Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
'न किञ्चिदन्यत् ?'
'नैव । अथवा आम्, अहं काव्यमपि कर्तुं जानामि । यद्यहं भवत्यै काव्यमेकं श्रावयेयं तदा किं भवती मे काव्यं प्रति चुम्बनमेकं वा प्रयच्छेत् ?'
'अवश्यं, यदि भवत्काव्यं मां प्रीणयेत् । किं तत् काव्यम् ?' क्षणं विचार्य सिद्धार्थेनोक्तं -
“निजोपवनं गता कमनीया कमला उपवनद्वारि च स्थित एकः कपिशः श्रमणः तत् कमलपुष्पं दृष्टं तेन यदा चकितेन तेन नतं तदा सस्मितं तत् स्वीकृतवती कमला स्वमनसि विचारितवान् श्रमणः कमनीयकमलाकृते कृतं समर्पणं
श्रेयो भगवत्कृते कृतात् समर्पणात्" ॥ ___ कमलोच्चैर्हस्ततालं दत्तवती, तेन च तस्याः कङ्कणानि रणरणितानि । 'भवतः कविताऽतीव रमणीया भोः कपिशश्रमण !, तां प्रति चुम्बनप्रदानेन न मे किञ्चिद् विनश्यति' - इति कथयन्ती नयनेङ्गितेन सा तं समीपमाहूतवती । सिद्धार्थेन तद्वदनस्य पुरतः स्वीयं वदनं स्थापितं, तस्याश्चाऽधरयोरञ्जीरखण्डतुल्ययोः स्वावधरौ न्यस्तौ । कमला तं गाढं चुम्बितवती, सिद्धार्थश्च सविस्मयं सोत्तेजनं चाऽनुभूतवान् यदेतावता सा तं कियत् शिक्षितवती, कियच्चतुराऽऽसीत् सा, कथं च तं साऽभिभूतवती पराजितवती आकर्षितवती च, तथाऽस्माद्दीर्घचुम्बनादनन्तरं विविधचुम्बनानां दीर्घा परम्परा कथं तं प्रतीक्षितवती चेति । दीर्घ श्वसन् स तत्रैव स्थिरो जातः । तस्मिन् क्षणे, स्वदृष्टिपुरतः स्वयमेव कस्यचन बोधस्य पूर्णतायाः द्वारोद्धटनेन बालस्येव विस्मितः स सञ्जात आसीत् ।
'भवतः काव्यमतीव सुन्दरमस्ति' – कमलोक्तवती । 'यद्यहं धनिकाऽभविष्यं, तदाऽवश्यं तत्कृतेऽहं भवते धनमदास्यम् । किन्तु काव्यं कृत्वा प्रभूतधनार्जनं नितरां कठिनं भविष्यति, यतः कमलाया मैत्रीं यदि भवान् वाञ्छति तदा भवता प्रभूतं धनमर्जनीयमेव' ।
भवती कथमिव चुम्बति खलु !!' - सिद्धार्थोऽस्फुटस्वरेण कथितवान् ।
'तत् तु सत्यमेव । एतेनैव मे वस्त्राणामाभरणानामुपानहां सर्वविधवस्तूनां चाऽभावो नैव भवति । किन्तु भवान् किं करिष्यति ? विचारणात् उपवासकरणात् काव्यरचनाच्चाऽधिकं किमपि कर्तुं न शक्नोति भवान् ?'
'अहं यागस्तोत्राणि गातुं जानामि, किन्तु नाऽहमितः परं तानि गायिष्यामि', – सिद्धार्थोऽवदत् । 'अहं मन्त्रानपि जानामि, किन्तु नाऽहं तान् उच्चारयिष्यामि । अहं शास्त्राणि पठितवान्.....' "तिष्ठतु', – कमला तं रुद्धवती; 'किं भवान् पठितुं लिखितुं च जानाति वा ?'
५८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154