Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
घनश्यामकेशकलापमध्ये शोभमानं तस्यास्तेजस्वि सुमधुरमतीव चतुरं च वदनं स दृष्टवान् । तस्या शोणावोष्ठौ प्रत्यग्राञ्जीरखण्डाविव भासुरावास्तां, दीर्घ वक्रे च भ्रुवौ कलात्मकतया वर्णितौ आस्तां, कज्जलाक्ते दीर्घ नेत्रे अतीव विचक्षणे सावधाने चाऽऽस्तां, हरित-सुवर्णमयस्य चोत्तरीयस्योपरि भ्राजमाना विशदा कृशाऽऽयता च ग्रीवाऽऽसीत् । तस्या दी? तनू च हस्तौ मृदू सुग्रथितौ मनोरमसुवर्णकङ्कणैश्च शोभमानावास्ताम् ।
सिद्धार्थस्तस्याः सौन्दर्यं दृष्ट्वाऽभिभूतो जातस्तस्याऽन्तःकरणं च प्रमुदितम् । यदा च शिबिका तत्पुरत आगता तदा स किञ्चिदवनम्योत्थितवान् तस्याश्च तेजस्वि सुरूपं च वदनं, चतुरे दीर्घ च नेत्रे स्थिरदृष्ट्या निरीक्षितवान् । तस्य श्वासेषु च कश्चिदज्ञातः सुगन्धः प्रसृत इव । साऽपि च सुन्दरी शिरश्चालयित्वा स्मित्वा च तदभिवादनं स्वीकृतवती क्षणार्धेन च परिचारकसमूहेनाऽनुत्रियमाणा सोपवनेऽदृश्या जाता ।
सिद्धार्थश्चिन्तितवान् यद् 'नूनं शुभशकुनैर्मया नगरे प्रविष्टं खलु !' । स तूर्णमेवोपवने प्रवेष्टुमुत्सुक आसीत् किन्तु विचारणेन स ज्ञातवान् यत् कथं सर्वेऽपि परिचारका दास्यश्च तं सर्वथाऽवज्ञयाऽविश्वासेन निराकृतिपूर्वं च दृष्टवन्त इति ।
'अहमितोऽपि श्रमण एव', स चिन्तयति स्म, 'अधुनाऽपि साधुरहं भिक्षाचरः । किन्तु तादृशेन मया नाऽवस्थातव्यमन्यथा कथमत्रोपवने प्रवेष्टुमर्हेयम् ?' ततश्चोच्चैर्हसितवान् सः ।।
स उपवनस्य पुरत एव गच्छन्तं कञ्चन जनं पृष्ट्वा तस्याः सुन्दर्या नामादि ज्ञातवान् । उपवनमिदं हि कमलाभिधाया सुविख्यातवाराङ्गनाया आसीत् । तथा नगरमध्येऽपि तस्या एको महालयो निवासस्थानमासीत् ।
ततः स नगरं प्रविष्टः । तन्मनस्येकमेव ध्येयमासीत् । तमेव ध्येयमनुसरन् स समग्रमपि नगरं निरीक्षितवान्, तद्रथ्यासु पर्यटितवान्, कुत्रचित् स्थानेषु स्थिरतया स्थितवान्, प्रान्ते च नद्यास्तटे विश्राम कृतवान् । ..
सायङ्काले स केनचिन्नापितसहायकेन सह मैत्री कृतवान् यं स वृक्षच्छायायां कार्यं कुर्वन्तं दृष्टवानासीत् । ततो विष्णुमन्दिरे तं पुनरप्युपलभ्य स तं विष्णोर्लक्ष्म्याश्च सम्बन्धिनी: कथाः श्रावितवान् । निशि स नदीतटस्थितायां नावि शयितवान्, प्रत्यूषे च ग्राहकागमनपूर्वमेव स नापितसहायकेन क्षौरं कारितवान् केशांश्च तैलसिक्तान् कारयित्वा प्रसाधितवान् । ततः स नदीं गत्वा सम्यक् स्नातवान् ।।
अपराह्ने, यदा सुन्दरी कमला शिबिकया निजमुपवनं प्राप्ता तदा सिद्धार्थो द्वार्येव स्थित आसीत् । स ईषन्नत्वाऽभिवादनं कृतवान् कमलायाश्च प्रत्यभिवादनं प्राप्तवान् । ततः सोऽन्त्यं परिचारकं सञ्जयाऽऽहूय ‘एको ब्राह्मणो युवा भवत्या सह सम्भाषितुमिच्छती'ति सन्देशं कमलायै कथयितुमुक्तवान् । स्तोकवेलयैव स परिचारकः प्रत्यावृत्तः, सिद्धार्थं च स्वेन सह नीतवान् । उपवनमध्ये एवैकत्र मण्डपे पल्यङ्कासीनायाः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154