Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 60
________________ सिद्धार्थः द्वितीयभागः जर्मनभाषायां मूललेखकः हरमानहेसः आङ्ग्लभाषायामनुवादकः हिल्डा-रोसनरः संस्कृतानुवादकः मुनिकल्याणकीर्तिविजयः १. कमला स्वीयवर्त्मनः प्रत्येकं पदे सिद्धार्थः किञ्चिन्नूतनं शिक्षितवान्, यतस्तस्य कृते सकलमपि जगत् परिवर्तितमासीत् खलु ! तेन च परिवर्तनेन सोऽत्यन्तमाह्लादितोऽभवत् । सोऽरण्ये पर्वतेषु च सूर्यमुदयन्तं निरीक्षितवान् तथा तालवृक्षाच्छादिते दवीयःसमुद्रतटेऽस्तमनमपि विलोकितवान् । निशि स सुविशालं तारकितं नभो दृष्टवान्, नीले प्रवाहे च प्रवहन्तं नावाकृति चन्द्रमसमपि स निर्वर्णितवान् । स वृक्षान्, नक्षत्राणि, प्राणिनः, जलधरान्, इन्द्रचापान्, शिलोच्चयान्, आरण्यकस्तम्बान्, पुष्पाणि, निर्झरान् सरितश्च, प्रभाते च वनस्पत्यग्रे स्फुरत्प्रभान् अवश्यायकणान्, सुदूररमणीयां पर्वतमालां, कूजतः पक्षिणः, गुञ्जन्तीमधुमक्षिकाः, मृदुपवनैर्दोलायमानानि च व्रीहिक्षेत्राणि विस्मयमुग्धतया निरीक्षितवान् । वर्णसहस्रैर्वणितं रूपसहस्रैश्च शोभमानमेतत् सर्वमपि सर्वकालं प्रकृतौ विलसदासीत् । सूर्यश्चन्द्रश्च सर्वदा प्रकाशमानावास्तां, नद्यो हि सर्वदा प्रवहन्त्य आसन्, मक्षिकाश्च सर्वदा गुञ्जन्त्य आसन्; किन्तु पूर्वं ह्येतत् सर्वमपि सिद्धार्थस्य निरर्थकं प्रतिभाति स्म, सर्वमपि क्षणिकं मायाजालमयमावरणरूपं चैवाऽनुभूयते स्म, सर्वमप्यप्रत्येयतयैव विलोक्यते स्म, निन्द्यतयोपेक्ष्यते स्म, विचारप्रदेशाच्च निर्वास्यते स्म । यतः सर्वमप्येतत् वास्तविकं न, यतो वास्तविकता हि दृश्यजगतोऽपरस्मिन् पार्वे निहिताऽऽसीत् । किन्त्विदानीं तस्य दृष्टिरस्मिन् पार्वेऽपि विचरिता । दृश्यं सर्वमपि स दृष्टवान् प्रतिपन्नवांश्च, तथाऽत्र जगति स स्वीयं स्थानमपि निरूपितवान् । इदानीं वास्तविकताया निरूपणे तस्याऽऽसक्तिर्नाऽऽसीत् नाऽपि चाऽन्यः पार्श्वस्तस्य ध्येयम् । अन्यत् किञ्चिदपि यदि न काम्येत तदा जगदिदमत्यन्तं सुन्दरमत्यन्तं सरलं शिशुतुल्यं निष्पापं चाऽऽसीत् । चन्द्रस्तारकाणि च सुन्दराण्यासन्, निर्झराः, समुद्रतटः, अरण्यं, पर्वताः, पशव: सुवर्णवर्णा भ्रमराः, पुष्पाणि पतङ्गाश्चेति सर्वमपि सुन्दरमासीत् । ईदृशे सहजे, सरले, प्रबुद्धे, सन्निहितेनैव च सम्बद्ध आशङ्कारहिते च जगति विचरणमप्यतिसुन्दरमतीव मनोरमं चाऽऽसीत् ।। ____ अन्यत्र हि सूर्यः प्रखरतया तपन्नासीत्, अन्यत्र च घनारण्यच्छायासु शीतलता प्रवर्तते स्म, अन्यत्र च कूष्माण्डानि कदलीफलानि च विलसन्ति स्म । दिनं रात्रिश्च लघूभूते भासेते स्म, समुद्रे विचरन्त्या नौकाया वातपटमिव प्रत्येकं मुहूर्तं जवेन संचरति स्म - निधानैः पूर्णमानन्देन च पूर्णम् । ५१ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154