Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ प्राप्नुयाद् वर्षसहस्रैरपि कश्चित् परं नैकोऽप्येतेषु कश्चिदहङ्काराद्यनघगुणकालुष्यकलुषितमात्मानं बभार । हन्त तर्खेतदपेक्षया कः खलु ज्ञानातिशयः साम्प्रतकालीनानां जनानाम् ? किञ्च – एतन्निष्टङ्कितमिह जानीहि, यत्राऽहङ्कारान्धकारप्रचारो, न तत्र निर्मलज्ञानदिनकरकरप्रचारः, विद्याहङ्कारयोः सहाऽनवस्थानस्वभावविरोधविधुरत्वात् । एकतरसम्भवे इतराभावस्य स्पष्टनिष्टङ्कनात् । कुत्रचिदहङ्काराभावेऽपि विद्याविरहदर्शनेन नाऽत्र व्यभिचारचौरप्रचारः शङ्कनीयः । तत्र तदुत्पादकाध्ययनादिसमग्रकारणभावहेतुकोदारविद्यानुपलम्भेपि तद्योग्यताया विद्यमानत्वात् । न च वयं निरहङ्कारत्वमेव सर्वथा विद्याहेतुं ब्रूमः, तदन्येषामप्यध्ययनादितद्धेतूनां विद्यमानत्वात् । न च विद्यारूपस्वकार्योत्पादनासमर्थत्वात् तस्य तद्योग्यताया अप्यभाव, इति वाच्यं, तदन्यकारणाभावनिमित्तकत्वात्तदनुत्पादनस्य । न च मुख्यहेतुसम्भवेऽप्यपरहेत्वनपेक्षं कार्योत्पादः सम्भवति, तेषां तदनिदानप्रसक्तेः । यो यदभावेऽपि भवति, न तत्तस्य कारणं, घटस्येव तन्तवः । तन्नैवं तत्र तद्योग्यताभावः साधयितुं शक्यः न चैवं साहङ्कारस्याऽपि तद्योग्यता भवत्विति चिन्त्यं, तस्य कदाऽपि तददर्शनात् । अथाऽऽचक्षीथाः प्रत्यक्षमृषावादित्वमेतत्, यदहङ्कारिपुरुषव्रातानां सन्तमपि विद्याप्राग्भारमपहृध्वे । दृश्यन्ते हि बहवोऽपि सुधियोऽप्रमाणोन्नताहङ्कारशिखरिशिखरमारूढचेतसोऽपि विद्यावैशारद्यापहृतसहृदयहृदया इति । तदेतदज्ञानमदिरापानविह्वलचेतसां प्रलपितम् । तत्पुरुषाणां चातुर्वेदस्य विद्यात्वायोगात्, तदयोगश्च तत्फलविरहात् । विद्या हि ज्ञानमुच्यते, तस्य चाऽनन्तरफलं कुमार्गविरत्यादि, सन्मार्गासेवनादि च । तथा चोक्तम् - ज्ञानस्य फलं विरतिरित्यादि । तथा 'तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । तमसो हि कुतः शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥ इत्यादि । अहङ्कारस्य रागाद्यविनाभावित्वात्तत्त्वतस्तदभेदाच्चेति । न चाऽहङ्कारः सन्मार्गस्तस्य भवहेतुत्वात्, शिष्टनिन्दितत्वाच्च; आखेटकादिवत् । इति सिद्धं यत्राऽहङ्कारघोरान्धकारप्रचारो, न तत्र ज्ञानदिनकरकरविहार इति दर्पापाकरणम् । अतः परित्याज्योऽयं सर्वथा प्रशस्यश्रेयोमार्गाराधनप्रधानसाधनानवद्यविद्याविशारदादिभिः साभिलाषिभिरवलेपाक्षेपः । विधेयोऽनवरतमप्रतिमगुणानुरागसङ्गः, उपार्जनीयाश्च सम्यग्ज्ञानविनयनयविवेकादिगुणनिकराः । यतो गुणा एव दुष्प्रापाः प्रबलकलिकालविलासानुभावस्फुरदोषजालबहुलेऽत्र क्षितितले, गुणवानेव च त्रिविष्टपेऽपि विशिष्टजनेषु स्पष्टप्रतिष्ठास्पदं जञ्जभ्यमानः समीक्ष्यते दक्षैः । यतो गुणाः सर्वत्र पूज्यन्ते । तथा गुणवन्तमेव हि वरीवृणीयुरहमहमिकया निरस्तापदस्तत्तत्सकलसम्पदः । ऋद्धिसमिद्धा अपि दुर्लभतरगुणवच्चरणपरिचर्यालालसमानसाः सर्वतस्तदभ्यासदेशालङ्करणं बोभूयेरन् । अप्रार्थिता अपि च तद्गुणप्रकरप्रेक्षणप्रहृष्टमानसा निर्व्याजभक्तिभावितान्तःकरणतया गुणवत्पदयुगलं स्वमौलौ मौलिलीलामवलम्बयेयुः । ४४ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154