Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राज्ञप्रज्ञामहिमानं प्रथयितुमलम् । तथाऽपि चतुरचेतश्चमत्कृतये केषाञ्चिदुच्यते । तथाहि -
विलेसिवान् चिरमनिवारप्रचारोद्यद्वादिदर्पान्धकारसंहारदिवाकरकरनिकरप्रतिमवाग्विलासः श्रीसिद्धसेनदिवाकरो नाम सूरिवरः । यस्य किल समारूढस्य प्रौढवादरणाङ्गणे प्रज्ञाज्ञैश्वर्यादिगुणसदःसदःपतिप्रतिभाधारणाबाहुश्रुत्यक्षान्ति-माध्यस्थ्यादितत्तद्गुणग्रामरमणीयानेकसभ्यावलीसमक्षमक्षोदीयोऽक्षुण्णक्षोदक्षमानल्पविकल्पकल्पिताकल्पजल्पकेलीकलामाकलय्य मषीविलिप्तवदना इव प्रत्यग्रपराभवाविर्भावप्रभवद्विषादासादनोदितश्यामलिमान: पञ्चाननरावसंश्रवणादिव जलधरधोरणीधौताञ्जनगिरिगरीयःसोदरोद्धरसिन्धुरपरम्परेव तत्रसुः सर्वतोऽपि प्रचण्डपाण्डित्यपाटवाखण्डवाडिण्डिमाडम्बा(म्बरा) अपि प्रतिवादिसन्दोहाः । यः किल भगवान् स्वीयौन्नत्यप्रकर्षामरगिरिगरीयःशृङ्गप्रस्पर्द्धिऋद्धिजिनालयश्रेणिशिखरशिरोऽसंस्थितादभ्रकिङ्किणीजालनिक्वणव्यतिकरवाचालिताखिलदिक्चक्रवालप्रचलदुज्ज्वलोद्यद्विपुलपताकावलीसङ्करोच्छिन्नखरकरनिकरप्रचाराविर्भवत्तापसम्भारायामुज्जयिनीमहानगर्यामपहतहरगिरिगुरुशैखरौन्नत्यमदगरिमोन्मादे महाकालाभिधप्रासादे श्रीमद्देवाधिदेवानुपमस्तुतिविरचनवशात् प्रस्फुटच्चण्डचण्डीशलिङ्गोत्थखण्डान्तराविर्भूतायां श्रीमज्जिनपतिप्रतिमायां चमच्चेक्रीयमाणचित्ताक्रमाक्रान्तदिक्चक्रविक्रमोद्भासितश्रीविक्रमादित्यभूपतिप्रभृतिप्रवीणततिविततसदसः श्रीमद्देवाधिदेवानणुगुणप्रख्यापनपूर्वं तत्त्वत्रयीप्रबोधप्रदानेन प्रभावयाञ्चकृवान् श्रीमज्जिनशासनं, सुरगुरुरप्यचतुर एवैतस्य गभीरतरार्थानन्दिसकलतार्किकचक्रचूडामणिपरिषत्सम्मत्याद्यप्रतिमग्रन्थरत्नोत्करप्ररोहरोहणगिरेरित्यादिविशदावदातविवर्णने ।।
तथा पवित्रयाम्बभूव क्षितिवलयं सूरिवरः श्रीमल्लवादी नाम महावादी । यस्य भगवतोऽनतिशैशववयसोऽपि क्षपिताशेषविपक्षक्षितिभृच्छिलादित्याभिधप्रौढप्रतापशालिमेदिनीवासवोदारसंसदि प्रक्लृप्ते षण्मासावधिवादमहासङ्गरे निर्जितदुर्जयोजस्विप्रतिभाप्राग्भारालयाखिलसौगतावलीप्लुष्टगरिष्ठयशःप्रकराविर्भूतायशोङ्गारगणप्रसङ्गसादितप्रवरस्थिरतरतागुणो यशोभरघनसारः सुरभयामासिवान् त्रिभुवनभवनोदरम् । अद्याऽपि हि यत्प्रभवं नयचक्राख्यग्रन्थचक्रं समुच्छिनत्ति प्रसरढुर्वादिदर्पचक्रम् ।
तथा उपचक्रे भगवान् अपारसंसारपारावारपरिमज्जज्जन्तुजातमविकलकरालकलिकालविलासेऽपि त्रिभुवनभर्तृश्रीमज्जिनपतिगदितानवद्यनिःश्रेयसाध्वप्रदर्शनेन कृतत्रिभुवनभद्रो हरिभद्रो नाम सूरीन्द्रः । यतः क्षमाधरगुरोः प्राप्तप्रभवा सललितबहुलविमलाबालनिष्प्रतिमोदाराव्यर्थसदर्थसाक्षुण्णाक्षरनिकरनीरपूरनिरन्तरा, क्वचिद्विरचितातुच्छमात्सर्यालयाशेषपरप्रवादिप्रभवानेककर्कशतर्कसम्पर्कप्रतिघातार्थोपस्थापितनिष्प्रतिमोत्तमोत्तमयुक्तिव्यतिकररत्नोत्करकरम्बितान्तरा, क्वचिदुद्दण्डदण्डककदम्बकप्रोच्छलद्धवलामललोलकल्लोलमालोत्पतत्सीकरप्रकरासारव्ययितत्रिभुवनजनसन्तापा, क्वचित्कवलितासारपरप्रवादिप्रथितागण्यानुमानमीनावलीकदुःशकव्यभिचारप्रचारा, असङ्ख्येयाध्यक्षमुख्याक्षुण्णक्षोदक्षमाप्रौढप्रमाणप्रकरप्रसर्पत्तिमिङ्गिलगिलावलीसङ्कलान्तराला, क्वचिन्निरवद्योदारहृयपद्यावलीधवलविलसन्मरालमण्डलीसमाकुलविपुलपुलिनाभोगभोगा, क्वचिदतिगूढप्रौढप्रचुरगभीरार्थसार्थस्वल्पाक्षरानल्पगद्यपद्यावलीविकटपुटभेदपेटकोद्घाटिताकालबालावलीसाध्वसव्यूहा, क्वचिदमृतरसनिस्यन्दिश्रवणसुखदानेकग्रथितगाथागणागाधगूढप्रौढ
४२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154