Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 49
________________ प्रबुद्धजनमनोमान्या, ये विधाय विधिवत् शास्त्राध्ययनं पुनस्तदवधारणादिना प्रतिदिनं विवृद्धिमेव दधति तानि विदध्युः । तद्विवृद्धिश्च प्राय: पटुतरतदभ्यासव्यासप्रयाससाध्या, सोऽपि प्रायस्तद्विषयोत्साहपूर्व इति प्राहुः प्रबुद्धाः । एषोऽपि गुणिजनप्रष्टैः श्रेष्टिगोष्ठीविधानदधद्बढिमानमुपलभ्यते । अतो बहुगुणत्वादेषाऽपि ज्ञानादिगुणप्रकर्षप्रापकतया परम्परया साधनमेव जेगीयते श्रेयोमार्गस्य । तेन यथासमयमेतामप्यादरिदारिषुर्विदुराः श्रीसर्वज्ञोपज्ञसज्ज्ञानोत्साहादिगुणोपचयहेतुमिति । यत उच्यते - ज्ञानोत्साहो गुणावाप्तिः, प्रागल्भ्यं बहुदशिता । तत्त्वबोधः श्रुतावाप्तिः, साधुगोष्ठीगुणा ह्यमी ॥१॥ किञ्च, इयमेव स्वमधुरिमविधुरितो/धोलोकाधारसुधाभिमाना वसुन्धरावलये विचरद्विबुधततितुष्टये प्रभवति । अतः पापीयध्वं क्षणं दक्षिणाक्षुण्णदक्षणप्रायं सममस्माभिरचतुरवचनप्रपञ्चश्रवणोद्भूतप्रभूततापापहारप्रवणं त्रैवेद्यगोष्ठीपीयूषयूषपूरम् । अथ केचिदहङ्कारमषीशितिमानमात्मन्यादधतो न दरीध्रति तथाविधोज्ज्वलगुणानुरागम् । ते चैवमखर्वगर्वाध्मातमानसा न तामहतीति तान् प्रत्युपदेशलेशः प्रपञ्च्यते । तथाहि - तथाविधमवसरमुपलभ्य विद्वन् ! कथङ्कारं भवद्हृदयगुहायामुद्यच्छास्त्रखरकरनिकरप्रचारेऽपि क्वचित्तत्तद्वचनान्यथानुपपत्त्यनुमेयापहेयाहङ्कारान्धकारप्रचारः । विमरीमृश्यतामचिरस्य मोहस्य लास्यम् । किं युज्यते भवादृशामपि प्रेक्षादृशां हृदयेष्वन्तरुद्यच्छास्त्रप्रकरध्वान्तारातेः किञ्चिद्वस्तुतत्त्वानवबोधावरणमनुमापयदहङ्कारशावरम् ? किञ्च अन्तर्चलद्विनयनयविज्ञानादिगुणतृणभरोद्भूतप्रभूतजाड्यज्वलनमनुमेमीयन्ते तदन्यथानुपपन्नायाः सर्पद्दर्पोद्दामधूमस्फीतताया दर्शनेन प्रबुद्धाः ।। ___आः किमिदं हतविधेर्विततललितमिदं, यद्विवेकिनराणामपि बुद्धितरुष्वेवं गर्वगुर्वविवेकातिरेकोदकप्रकरनिषेधः ? पुरापि के के ह्येकेनाऽप्यनेकाविवेकोत्पादकेनाऽनेन च्छेका अपि नैकलोकनिकायाः कानि कानि नाऽऽचरिकारयिषताऽकृत्यानि ? कृत्यानि वा कानि कानि न व्यसरिस्मारयिषत् स्मयेनाऽनेन विस्मयस्फीतताधायिस्फुरत्तरस्मृतिनदीष्णोरपि? तन्नूनं विधेरेवेदमवध्येच्छाप्रागल्भ्यं परिपोस्फुरीति, तेषु तेषु पदार्थेषु उपपनीपद्यमानानामनुपपनीपद्यमानानां वा तत्तत्तद्गुणागुणानां तथा तथा नियोजने वियोजने वा प्रत्यलं, यद्भवादृशेषु विमलविद्याजलप्रधौतावदातहृदयेष्वप्येवमहङ्कारमषीकृष्णिमावलिप्तता । तथा चाऽवावादीत् श्रीहर्षः कविमचर्चिका - अवश्यभव्येष्वनवग्रहग्रहा, यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयाऽनुगम्यते, जनस्य चित्तेन भृशावशात्मना ॥१॥ अथवा कोऽयं विधिर्नाम ? का वा तस्येच्छा ? किं वा तया सेषिद्धयेत ? पुरुष एव हि अनवगतत्रयीतत्त्वतया स्वस्वरूपविवेचनादिविकल: सत्कृत्येषु गजनिमीलकाद्यवलम्बी प्रमादानाभोगादिकुमित्रसम्पर्कवशादवितक्यैवोदकं तत्तदसत्क्रियाप्रवृत्तस्तत्तदुःखफलोपभोगभाजनं बोभूयेत । स एव च यदा श्रीसर्वज्ञोपज्ञप्रशस्तशास्त्रोपदेशप्रदीप्रप्रदीपोपलब्धसमस्तवस्तुसतत्त्वतया सम्यग् विविच्य तद्गुणागुणस्वरूपं ४० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154