Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ तदुपादानहानयोः प्रयायत्येत, तदा समासादयत्येवाऽयमुत्तरोत्तरतत्तच्छुभफलभरभ्राजिष्णुः क्रमात्परमपदसम्पदमपि । यदुच्यते - तावत्कलयति पुरुषो, हतविधिललितोत्थदुःखसङ्घातम् । चिन्तयति नेति यावत्कोऽहं ? किं मे हितं चाऽन्यत् ॥१॥ इति च विविच्य विबुध्य च, हिताहितप्राप्तिहानियत्नवतः । सा नाऽस्ति काऽपि सम्पत्, लुलति न या करतले यस्य ॥२॥ अत: परिज्ञातज्ञेयगुणागुणगरिमाणो विचारचारिमाखण्डपण्डितिमानश्च विचारयन्तां स्वचेतसा, किं चतुराणां चेतश्चमत्कारकारी स्यात् कदाऽपि चेक्रीय्यमाणोऽयमवलेप: ? किञ्च, इह हि दुरन्ते कलिकालविलासे विस्फुरत्प्रबलमोहभूपालकुतूहलोत्तालबलोच्छलत्कोलाहलोच्चालिताखिलमञ्जुलोल्लासिबहुलगुणचक्रवालाकलितवित्रासे कुतस्त्यं तावन्निरवद्यहृद्यचातुर्वैद्यवैशारद्यम् । न हि कोऽप्येवंविधः पुरुषविशेषोऽत्र समीक्ष्यते, यः किल कलयत्यविकलं सार्ववैद्यावबोधविशदिमानम् । यतो गलन्त्येव हि प्रतिकलमधुनातनेषु तमोजनेषु सच्छिद्रभाजनोदरपूरिपूर इव शुश्रूषा-श्रवण-ग्रहण-धारणोहापोहार्थविज्ञान-तर्कविज्ञान-तत्त्वज्ञानलक्षणा अमी मनीषागुणाः । गलत्सु च तेषु तदग्रिमनिदानानि विधौ प्रधानानि विद्यानिधानान्यपि परीस्पृशन्त्येव हि क्रमेणा-ऽपहानिपदवीम् । एवं च क्रमेण हीयमाने विद्यासौन्दर्ये साम्प्रतकालीनेषु जनेषु ज्ञानलवा एव परिपोस्फुरति । तथाऽपि योऽचतुरचेतस्को विद्याघ्रातमात्रतयैवाऽमानाहङ्कृतिभाजनमानुषङ्गरङ्गद्वङ्गसंसर्गी सञ्जायते, नाऽर्हत्येवाऽयमप्रतिमप्रामाणिकश्रोत्रियपरिषदि प्रवेशम् । भवते च स खल्वदृष्टाश्रुतस्वीयज्ञानाणुताप्रदायि-पुरातनानेकमौनीन्द्रवृन्दोदारचित्रचरित्रः कूपमण्डूक इव बहुश्रुतसदस्सु हास्यास्पदत्वमिति । ततो विचक्षण ! समीक्षस्व क्षणमान्तरचक्षुषा, कस्ते नाऽज्ञानातिशयो, येनैवं दुर्द्धरदर्पोद्धरकन्धरीभवसि । धीमन् ! नयस्व क्षणमेकं स्वीयमानसं स्थिरस्थेमानम् । अवधारय वैबुध्यधुराधरणधीरोदारपुरातनानेकमुनीन्द्रचन्द्रो-दग्रविद्याशक्त्यादिसौन्दर्यम् । तथाहि - इह हि अहमहमिकावनम्रकम्रनिःशेषवृन्दारकासुरनिकरेश्वराखिलविपुलावलयप्रौढपरिवृढ श्रेणिशीर्षावलीशेखरांसङ्गिरत्नोकरोल्लासिरश्मिमण्डलीमिलदविरलपदयुगलनखोन्मिषत्सिन्दूरपूरारुणरुचिरोचिनिकरकर्बुरिताम्बरोदरश्रीमज्जिनपतिगदितोत्पादव्ययध्रौव्याद्यनन्तधर्मात्मकाशेषजगद्व्यवस्थाप्रकाशकामलपदत्रयीसमाकर्णनानन्तराविर्भवत्प्रतिभाप्राग्भारप्रकर्षप्रबुद्धाशेषभुवनान्तर्वर्तिपदार्थसार्थोपनिषद्याथातथ्यगणधरपदवीप्राप्तप्रतिष्ठश्रीमद्गौतमप्रभृतिगणपतयोऽन्तमुहूर्त्तमात्रकालेन चराचरोदरविचरन्मोहान्धकारसम्भारसंहारोद्यत्तरुणतरणिकरनिकरानुकारिभिः शेषज्ञेयोपनिषत्परिज्ञाननिधानप्रधानतरानन्तार्थाक्षय्यकोशात्मद्वादशाङ्गीयशःस्तम्भसमुत्तम्भनं विरचयाञ्चक्रुः, तेष्वेव व्यलासीद् विश्वत्रयानुत्तरावबोधसम्पत् । तदनु पुनरवलम्बिततरतमभावप्रज्ञाविभवाद्बहवोऽप्यभूवन्नित्यादिप्रज्ञाप्रकर्षप्रतिहताशेषबुधम्मन्यविद्याखर्वगर्वसर्वस्वाः सक्षुभिक्षुक्षितिपतयो यतिपतयः । ये हि किलैकपदश्रवणतोऽप्यविकलं कलयाञ्चकुर्ग्रन्थकोटीकोटीरपि । कः खलु परिमितजीवितैकजिह्वो निजशेमुषीसमुन्मेषैः सुरगुरूयमाणोऽपि कोष्ठकबुद्धिबीजबुद्ध्याद्यनेकप्रकारप्राचीन ४१ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154