Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
धीमन् ! युक्तमेवैतत् भवादृशां विशुद्धबुद्धिस्पृशां सम्यक्सारेतरवस्तुदृशां चारुचारिमोदारवर्यचातुर्यचमत्कृतचतुरविशां, यदेवं तेषु ग्रन्थेषु क्रोडीकृतव्यासः सदभ्यासः । किल शास्त्राभ्यास एव हि सारमसारसंसारे । तद्वतामेव यत्र तत्र तत्रभवता दर्शनात् ।
किञ्च, अस्तमीयिवांसः खलु ते त्रिभुवनभवनाभोगभासिनः सकलजगज्जन्तुजातामितैकान्तहितानुशासिनः प्रध्वस्ताशस्ततिमिरनिकराः सर्वज्ञदिवाकराः । अचकलच्चाऽविकलं सकलेऽपि क्षितितले कलिकालकालप्रदोषः स्वविलासकरालताप्रागल्भ्यम् ।
__ अथ च, प्रासरिसारिषुः सर्वतोऽप्यनिवारप्रचाराः प्रचुरतरतिमिरप्रारभाराः । अबोभवुश्च दक्षैरप्यलक्ष्या विशिष्य मोक्षपुराध्वानः । एवं च सति प्रशस्तशास्त्रप्रदीपा एव प्रगल्भायन्ते प्रदीप्रा जगति दुर्गापवर्गमार्गोपदर्शकतया ।
किञ्च, बाह्यान्धकारनिकुरम्बमात्रोपसंहारकारिणः सहस्रकिरणादप्यतिरिच्यते ह्येष निर्विक्रोष्यबाहीकान्तरतिमिरनिकरापहारकारी शास्त्रविसरः । तथा परिदृष्टपुष्टालोकादिविशिष्टपरिस्थूराविदूरार्थसार्थावगमनालङ्कर्मीणे लोचने अप्यवगणयत्येतदतीन्द्रियेतरवस्तुव्यतिकरप्रबोधप्रत्यलं शास्त्रमण्डलम् ।
किञ्च, महाचित्रनिधिरयं शास्त्रकोशो विधिवत्प्रदीयमानोऽपि यो विचक्षणैर्दक्षिणशिष्येभ्यो न कदापि क्षयितां शिक्षते, परं सुरक्षितव्य, एव खल्वमर्यादप्रमादादिदस्युभ्यः । तस्मान्निरन्तरं प्रमादपरिहारेण तदवबोधप्रसाधनावधानानुसन्धानविधानैर्भाव्यं विबुधधुरीणैः । तैविना अपहेयोपादेयोपेक्षणीयवस्तुनिकरव्यतिकरे तत्तत्तदुदर्कोपलम्भकतया, तथा विवेचनैकविकलत्वेनाऽक्षय्यमोक्षसौख्यादेः प्रापकत्वेन स्वहितस्य सम्यग्ज्ञानक्रियादेः प्रसाधयितुमशक्यत्वात् । न च तान्यप्रयत्नोपलभ्यानि, तत्तत्तत्प्रसाधनप्रधानसाधनसन्निधानविधानं विना तदध्ययनसाध्यस्याऽसिद्धेः ।
___ तत्साधनानि च विशुद्धबुद्ध्याभोगः १, सद्गुरुसमायोगः २, सद्गुरुविनयप्रयोगः ३, पुस्तकप्राप्तियोगः ४, प्रमत्ततावियोगः ५, सततोपयोगः ६, शुद्धयभियोगः ७, देहारोग्य ८भाग्या ९दीनि । दुरापाणि चैतानि । यतो जगत्कर्ममर्मवशादधर्माशर्मबाहुल्येऽस्मिन् कलियुगे प्रतिक्षणं प्रहीयमाणप्रधानमेधादिबलत्वेन क्व तावान् प्राचीनमुनीन्द्रचन्द्रशेमुषीविशेषानुयायी विशुद्धबुद्ध्याभोगः ? अगण्यपुण्यप्रचयपरिपाकिमहिमोपलभ्यः खलु समग्रग्रन्थार्थप्रबोधपटिष्ठविशिष्टतरामितहितनिधिश्रीमद्गुरुसमायोगः । तथा विकुत्स्यातुच्छम्लेच्छादिकृनृपतिततिविध्वस्तानेकवलभ्यादितत्तन्महानगरस्थानेकलक्षणप्रमाणागमादिसदादर्शोच्छेदेन कौतस्कुतस्तावदज्ञानान्धकूपप्रपतत्प्राणिप्रतिहस्तकप्रायप्रशस्तपुस्तकप्राप्तियोगः? तथा तत इतो दृश्यमाननिरुपमानमिथ्याभिमानाविरामाद्युन्मत्तकुनयोपचयप्रधानकुभूपतितत्पत्तिगृहीतोगविग्रहाग्रहग्रहोद्यत्प्रमादानाभोगरोगाद्यनुरोगाद्यनुमेयाभाग्यादिधुर्येऽत्र कलियुगेऽतिदुरापाणि तथाविधस्वास्थ्याप्रमत्ततोपयोगाभियोगारोग्यभाग्यादीनि । ततश्चैवं दुरासदान्यप्यासाद्य कथमप्येतानि नाऽधीयोरन् ये विधिवन्निरवद्या विद्याः, वञ्चितः खलु तैरविबुधधुरीणैः स्वात्मैव तदुत्थोच्चश्रेयोभ्यः । अधीत्याऽपि च ये शास्त्राणि सततानवधारणेन वृद्धिविधुरतया विदधीयेरन् तदनुक्रमाद्धानिभाञ्जि सुशास्त्राणि, ते च समधिकतरं स्वात्मवञ्चनेन वञ्चनीयतामङ्गीचेक्रीयन्ते । त एव हि धन्याः,
३९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154