Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 46
________________ सहस्रावधानधुराधरणधौरेयश्रीमुनिसुन्दरसूरीश्वरकृता श्रीत्रैविद्यगोष्ठी । नमः सर्वविदे । विघ्नवल्लिविध्वंसिने कुठाररूपाय गुरवे नमः । ऐनमः ।। जयश्रीलीलालीवितरतु ममाऽनन्तमहिमा, जिनः श्रीमान् वीरस्त्रिभुवनविभुः सर्वकलनः । प्रवादा यस्यैवाऽऽगमजलनिधेरत्र निखिलाः समादाय स्वैरं कतिपयलवान् सत्त्वमभजन् ॥१॥ श्रीज्ञानसागराह्वस्वगुरूणां ज्ञानवारिधिम् । उपजीव्योपदेशं च कुर्वे त्रैविद्यगोष्ठिकाम् ॥२।। नमो विततैकान्तिकात्यन्तिकहितहेतुभ्यः श्रीमद्गुरुभ्यः । इह किल स्वपरसमयार्थसार्थादृष्यवैदुष्यपरिकर्मितमतयो विज्ञपतयः प्रायस्त्रैवैद्यगोष्ठीरतयो भवन्तीति तन्मनोविनोदाय तद्विषये किञ्चिदुच्यते । तत्र त्रैधाः प्रायो विदग्धा उपलभ्यन्ते तथाहि - केचन परमतमप्राचीनागण्यपुण्यप्रचयोपलब्ध श्रीमद्गुरुचरणपरिचर्याप्रसादप्राप्तानवद्यविद्याविलासोपहृतसहृदयहृदया अपि अवगतवस्तुसतत्त्वतया न कदाऽप्यभिमानकालुष्यमाशेश्लिष्यन्ते । केचन च किञ्चित्प्राचीनप्रचिताप्रधानकर्ममर्मवशतो निष्प्रतिमप्रतिज्ञातिरेकोद्भवाहङ्कारप्रचारप्रचारिताविवेका अपि सुयुक्तियुक्तोपदेशश्रवणादिना, स्वतोऽप्यधिकतरप्रज्ञाप्रकर्षप्रतिहतप्रवीणप्रकराप्रमाणप्रज्ञिलत्वाभिमानप्रकृष्टप्राज्ञपुरुषविशेषसमीक्षणादिना वा, व्यपहायाऽवलेपाक्षेपं सम्यग्गुणानुरागसङ्गिनो बोभूयुः । __इह कतिचित्पुरुषा अनादिकालमपारसंसारकान्तारोदरप्रसरणोपार्जितानिष्टकष्टौघहेत्वष्टपुष्टदुष्टादृष्टरक्षोधिष्ठिता विशिष्टमार्गसंसर्गिणः कथमपि परमतमप्रयासप्रसाधितकतिपयशास्त्राभ्यासा अपि परमार्थतो निबिडजडिमप्रचण्डिमावष्टब्धचेतस्कतया शृण्वन्तोऽपि तत्तन्निर्व्यपदेशोपदेशं, पश्यन्तोऽपि च बहुरत्नायां वसुन्धरायां तारतम्येन स्वतोऽधिकाधिकतरनिस्तुषमनीषासमुन्मेषोल्लासिप्रवीणवातान्, अखर्वगर्वपर्वतारूढमूढचेतोवृत्तितया न कदाऽपि गुणानुरागानुषणपूर्वकं मार्दवं बा भजन्ति । अनर्हाश्चैते सर्वथा असाध्यामयप्रचयप्रपीडिताङ्गाङ्गिवत् सदुपदेशादिप्रतीकारस्य । अनधिकृताश्च ते प्रबुद्धैरविबुधा विबुधजनोचितप्रशस्तशास्त्रगोष्ठीसुधापाने । आद्या द्वैधा अपि चाऽधिचक्रिरे तत्र सूरिभिः, परं द्वितीयाः साध्यव्याधिव्यथिताङ्गभाज इव प्रधानतरौषधविधानेन यथाप्रस्तावमहङ्कारनिराकरणविषयोपदेशलेशेन प्रतिबोधनीया इति । अथैतेषामन्यतमभाग्योपलभ्ये सङ्गमे समुपजाते सति यथोचितवचनादिप्रतिपत्तिपूर्वकमेवं स्याद् गोष्ठी । तथाहि - आगम्यतां भोः कोविदकुलावचूल ! अलङ्क्रियतामिदमासनं, किञ्चित्कलयथ प्रतिकलमतुलकुशलकमलाक्रीडाक्रोडासंक्रीडने भृङ्गभूयं यूयं, प्रमोमोदीदद्य शुभवतां भवतां कलावतां दर्शनेन सद्योऽस्मच्चित्तचकोरः । उल्लसत्येव हि कलावतः समुदये अप्रत्नगुणरत्नरत्नाकरः । दुर्लभो हि धर्मव्रततिवितानोच्छेदकरालकरवाले बहुलदोषजालेऽस्मिन् कलिकाले विमलगुणमण्डलाभरणभारिणां ३७ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154