Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
दर्शनेन निरस्याऽसमकल्याणकरणप्रवणकल्याणकमहिमोद्भावनेन निरचैषुश्चेतनाभृच्चणाः श्रीजिनस्यैव यथार्थां देवतत्त्वावतारितां, लोकातिगावाप्तावस्थानां च सिद्धानां प्लुष्टानन्तकालप्रचितमूलनिचयकर्मनिकराणां स्वभावज्ञानदर्शनवीर्यसुखानन्त्ययुक्तानामिति ।
गरिमगुरुतास्पदश्रीगुरुतत्त्वपरीक्षणे समस्तश्रेयोवितरणदक्षसम्यग्दर्शनज्ञानचरणाराधनचञ्चवस्तदुपदेशनपराः पञ्चमहाव्रतीधुर्धरणधौरेया गौरवार्हा गुरवो निरचायिषत निश्चयाख्याननिपुणैः । प्रणिगदितं चाऽऽगमनिष्णातैरारम्भपरिग्रहनिरतानामगुरुत्वं माध्यस्थ्येन ।।
अभ्युदयनिःश्रेयससाधनसाधीयोधर्मनिरूपणे अभयदानं मिथ्यावचनादत्तादानाब्रह्मपरिग्रहेभ्यो निवृत्तिः, क्रोधमानमायालोभाभिधानकषायचतुष्कधिक्कृतिः, विनयार्जवादिगुणाधिकारश्च यत्र सुप्रयत्नप्रतिपादितः स एव धर्मः ।
कुतीर्थिककथितस्य तु तस्याऽतथात्वं जीवतत्त्वावबोधतद्रक्षणप्रयत्नाभावादसर्वज्ञप्रणीतत्वान्निस्त्रिंशपरिगृहीतत्वाच्च ततं ततबोधांशुभिः पूज्यैः ।
तत्राऽऽद्ये हेतौ स्नानादेर्धर्मता सप्रसङ्गं निराकृता, प्रतिष्ठापितं चाऽपां सजीवत्वं, प्रकरणतो वीतरागाणामेव यथार्थवादित्वं च । द्वितीये च तदागमतत्प्रकाशकानामसर्वज्ञत्वं, तदागमानां च परस्परविरुद्धार्थाविर्भावकताविनाभाविता हिंसाद्यतिनिकृष्टोपदेशदानपटुता च साधिता । तृतीयस्मिंस्तु तस्मिन् सविस्तरं तत्परिगृहीतॄणां निस्त्रिंशता भवाभिनन्दिता च प्रादुर्भाविता ।
____ तदेवं देवगुरुधर्मरूपा तत्त्वत्रयी अत्राऽऽतताऽतनुबोधैः शैशवेऽप्यशैशवमतिभिरिति यथार्थाभिधाऽस्य त्रैविद्यगोष्ठीति । यतो नाऽत्र विश्वे वेविद्यते काऽपि विद्यावदातकल्याणाऽपरा विहायैतत्तत्त्वत्रयीम् । वेदनाद् विचारणात् प्रापणार्हत्वाच्चाऽस्या नांऽशतोऽपि विद्यात्वं जङ्घन्यते । यथावदवबोधश्चाऽऽसमाप्ति निरीक्षणादेवाऽस्या भावी । न हि सूर्यप्रयोजनं मुकुराक्रान्ततद्विम्बेन बोभूयमानमवलोक्यते । तथा चाऽऽशासे लब्ध्वाऽनया प्रस्तावनया प्रमेयं प्रमेयं समग्रमेनामध्येतुं श्रोतुं वा प्रयतेरन् प्रवर्तेरंश्चैतदभिहिते तत्त्वत्रयाराधनेऽनल्पकल्पनातिगफलसम्पत्तिसम्पादनसमर्थ इति सागरान्तानन्दनामधेयः ।।
३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154