Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अ
न्यायाचार्यपदाप्तक्रियाकरणासादितगण्युपाध्यायवाचकादिपदाः श्रीमद्यशोविजयचरणाश्च ऐकारावं संस्थापयामासुः प्रतिग्रन्थमारम्भे । परमाद्यानां प्रायश्चित्तप्रतिपत्तिसम्बन्धादन्येषां चोपगङ्ग-मैङ्कारजापविधानात्कवित्ववित्त्वप्राप्तिसद्भावाद्यथाङ्ककरणे स्पष्टतरमुपलक्ष्यते लक्षणादिदक्षैः प्रयोजनं, परं नैषां पूज्यानां प्रोक्तमन्तरेणाऽन्यत्, भविष्यति च कदाचित् तत्, परं न तदस्माभिर्व्यलक्षि । यदि परं स्यात्केषाञ्चित् ज्ञातं ज्ञापनीया वयमुपकारधिया ।
अनन्तरं चाऽपरगुरुस्मरणस्याऽऽवश्यकतामभिमन्यमानैरभियुक्तैरभियुक्तदेवतास्मरणस्थानीयं यथार्थाभिधानभृतां श्रीज्ञानसागरनामधेयानां स्मरणमकारि समुददीपि च प्रस्तुतप्रकरणप्रकरणपटिष्ठोपदेशनिदानताज्ञापनेन तेषां विद्यनदीष्णता । जायेतैव च जिज्ञासा जिज्ञासूनां श्रीमद्विषयिणी । सा च समापनीया सुधीभिः प्रकरणकृद्विहितगुर्वावलीगततत्प्रकरणवलोकनेन । तद्यथा -
श्रीसोमसुन्दरगुरुप्रमुखास्तदीयं, त्रैविद्यसागरमगाधमिवाऽवगाह्य । ...
प्राप्योत्तरार्थमणिराशिमनर्घ्यलक्ष्मी-लीलापदं प्रदधते पुरुषोत्तमत्वम् ।।१।। श्रीसोमसुन्दराचार्यप्रवरा ये प्रकरणकृदुरवस्तेऽपि श्रीपूज्यपादवितीर्णोपदेशामृतपानपीनाः । अनेन य आचचक्षिरेऽनवलब्धग्रन्थसत्तत्त्वाः यदुत 'न भट्टारकाः श्रीसोमसुन्दरपादान्तेवासिनः, कथमन्यथा भवेयुर्द्वयेऽपि सहाध्यायिनः ? कथङ्कारं, च प्राय: समानवयस्कानां गुरुशिष्यभाव: ? असम्भव्येव च लघीयद्भ्यः शिष्यार्पणं पूज्येभ्यः कुर्युः श्रीदेवसुन्दरमिश्राः इतीति केचित्, परमविचारितरामणीयकमेतत् । यतः ख्यापयन्त्येव पूज्यपादाः स्वयमेव श्रीमद्दीक्षितत्वमात्मनां शिष्यतामप्रतिमां च ।
"शिष्यस्तदीयोऽयमपीति मन्यते, श्रीवाचकेन्द्रेष्वगुणोऽपि मादृशः । ग्रहप्रभोः पुत्र इति ग्रहावलौ, न पूज्यते पङ्गुरपीह किं शनिः ? ॥२०॥ अहो तेषां कराम्भोजवासानां सुप्रभावता ।
जातो यैौलिगैर्योग्योऽप्यहकं मुनिसुन्दरः ॥२१॥" इति गुर्वावलीगौरवाविष्कल् गुर्वावल्याम् । तन्न प्राक्तनाः कल्पनाशिल्पनिर्मिता विकल्पकल्लोलाः प्लावयितुं स्युः श्रीसोमसुन्दरसूरिपट्टे एकपञ्चाशत्तमः श्रीमुनिसुन्दर इत्यादिव्याख्यानकुलिशं प्रभविष्णवः । प्रायः समानवयस्कत्वादिकारणानि चाऽलक्षितसाधुपदगौरवार्हाणामेव चेतसि विदध्युर्वासनां न तु विज्ञातगुरुपदैदम्पर्येतिहासानाम् । यच्च विद्यमानेष्वपि किमिति सोमसुन्दरसूरिषु श्रीमद्देवसुन्दरपादवर्णनमित्यनूद्यते तदप्यसमञ्जसमेव । यतो द्वयेऽपि वेविद्यमाना एव ते, सत्सु च देवपादेषु यत्सोमगुरुपादवर्णनं तदेव तेषां तच्छिष्यतासूचकमित्यलं विशेषेण ।
___ वर्णनीयता तु श्रीमद्देवसुन्दरपादानामसमभक्तिप्राग्भारनिभृतहृदयस्मरणीयत्वद्योतनाय । बृहद्गच्छाधीशत्वेन पूज्यपूज्यानां चाऽतिशयितपूजास्पदत्वस्याऽव्याहतेश्चाऽत एव च तद्विनेय इत्यभिहितं श्रीमद्भिः सामान्यतस्तदियता प्रबन्धेन श्रीमतां दीक्षागुरवः श्रीसोमसुन्दरचरणा, ज्ञानगुरवः श्रीमन्तो ज्ञानसागरा ज्ञानसागरा गच्छाधिपाश्चोद्देशाद्यतुच्छफलकल्पनकल्पमहीरुहमाना देववदाराध्यपादाः श्रीयुतो देवसुन्दरसूरय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154