Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राचीनं साहित्यम्
सहसावधानसौधस्तम्भसमानश्रीमुनिसुन्दरसूरिविहिता त्रैविद्यगोष्ठी
[वैक्रमीये १५तमे शतके सञ्जाता: सहस्रावधानिनः कूर्चालसरस्वतीति-बिरुदधारिणः प्रभूत-प्रकृष्ट-प्रशिष्टसाहित्यसर्जकास्तपागच्छाधिपत्यशालिन: पूज्याचार्यश्रीमुनिसुन्दरसूरीश्वराः स्वीये एकोनविंशतितमे एव वयसि विद्याग्रहणकाले विद्यगोष्ठीत्यभिधं ग्रन्थमिमं रचितवन्त आसन् । तेषां भाषाप्रभुत्वं रचनाप्रौढिविविधशास्त्राधिकारिता-इत्यादयो गुणा अस्य पठनेनैव वाचकानां कृते प्रकटिता: परिचिताश्च भविष्यन्तीति ।]
भूमिका - आगमोद्धारकाचार्यश्रीआनन्दसागरसूरीश्वराः अवधारयन्तु विदितम्नवद्यविद्यावृन्दविदीर्णमोहान्धतमसो विदुषः परमवैदुष्यधुराधरणधौरेयानवद्यविद्याव्रजावदातात्मनां तत्रभवतां श्रीमतां मुनिसुन्दराह्वयानां त्रैविद्यनैपुण्यं ग्रन्थस्याऽस्य शैशवविहितस्याऽवधारणेन । लक्षणादिशास्त्रशिक्षारुचिरत्वमपि न कथञ्चनैतन्निरीक्षणेन क्षुण्णमवलोकयिष्यते तत्रभवद्भिर्भवद्भिः, सदाचारपरीक्षाक्षमत्वमपि क्षमाधराणामिवैषां पूज्यानामवलोकनेनैतस्याऽवतरिष्यत्येव वाग्गोचरातीतं दृष्टिपथं, यतोऽत्राऽवलोकनीयमवलोकनसौन्दर्यमत्रभवतां प्रयोगवैचित्र्यानुप्रासादिकमलङ्कारविद्वेद्यमत्र तत्रभवद्भिः ।
प्रथमं तावद्भट्टारका वितेनुः स्वीयं जयश्यङ्कविन्यासेन मङ्गलाचरणं जिनवरनतिमयं, पूज्यानां हि समयोऽयं यद् ग्रन्थारम्भे जयश्रीरान्तरारीणामित्यध्यात्मपूर्णहृदयोदध्युल्लासशशधरसमश्रीअध्यात्मकल्पद्रुमस्याऽऽद्यपद्ये, जयश्रियं रातु जिनेन्द्रचन्द्रमा इति अनल्पमहिमगुरुगणगुणगरिमोद्गिरणपवित्रविविधपद्यमय्यां गुर्वावल्यां च यथा विलोक्यते विजैस्तथा न्यसनीयो जयश्रीप्रदो जयश्रीशब्दः । स एव चाऽत्राऽपि । न केवलं गीर्वाणवदनावतारिण्यां गीर्वाणभाषायां किंतु स्वभावसुभगानेकार्थततिनिधानकल्पायां प्राकृतवाण्यामपि शान्तरसप्रधानायामयमेवाऽङ्को न्यासि न्यासनिपुणैरुपदेशरत्नाकरादौ जयसिरीत्याद्यवलोकनाच्छ्रीमद्विहिते ।
भवन्ति च पुरुषविशेषनिर्मिता ग्रन्था एवंविधाङ्काङ्किताः । यथा भगवद्भिः श्रीहरिभद्रसूरिपादैविनिर्मितेष्वगण्यगुणाकरेषु ग्रन्थेषु विरहाङ्कोऽङ्कि, वाराणसीवासजातमदोद्धरविपश्चित्ततिविजयावाप्तयथार्थन्यायविशारदपदसदालोकलोकलोचनलोभकानेकदुस्तरतरत्नाकरग्रन्थशतविधानवितीर्ण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154