Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
परमसौजन्यधारिणां .दुर्गस्वर्गापवर्गमार्गप्रचारिणाम् अनवद्यविद्याविलासामराचार्यानुकारिणां सुविचारिणां सदाचारिणां सङ्गमः । गमयत्येवाऽयमनुत्तरो ह्युत्तरोत्तरोत्तमानेकगुणविवृद्धिहेतुः सेवधिरिव विधिवद्गुणिजनसन्निधिः परमसुखसम्पदं पदां विनयादीनां नरम् । किं नोक्तं चतुरचेतश्चमत्कारकारिहारिप्रचुरवाक्प्रबन्धेन श्रीमता हर्षमिश्रेण सकलकविकुलप्रबलमदगदौषधे नैषधे नाम महाकाव्ये, तथा हि - प्राणप्रियप्रणयिनी - प्रवरगुणगणप्रगुणनप्रकटितप्रणयप्रकर्षं राजहंसावतंसं प्रति प्राह नल ईलापतिः
भृशतापभृता मया भवान्, मरुदासादितुषारसारवान् । धनिनामितरः सतां पुनर्गुणवत्सन्निधिरेव सन्निधिः ॥१॥
तद्युक्तमेवैतत् सकलकलन्दिकाकलनाविकलकौशलशालिनां विमलविनयविवेकाद्यनणुगुणमालिनां शुभवतां भवतां सङ्गमेन यदद्यामन्दानन्दसन्दोहास्पदं भवामहे वयम् । किञ्च भो ! यः खलु प्रबलकलिकालानुभावप्रसरद्दोषचक्रवालोच्छलद्बहुल धूलीपटलध्यामलितान्तराले सकलेऽपि क्षितिमण्डलतले दुर्लभतरमुपलभ्याऽपि प्रथितप्रवीणप्रकरप्रार्थितप्रगुणगुणगणसङ्गमं गुणिजनसङ्गमं तत्तद्गुणानभिज्ञतया गुणिमत्सरितया वा न प्रकृष्टप्रमोदामोदमेदुरतां बिभर्त्ति स खलु न प्रेक्षाचक्षुषां चक्षुषा प्रेक्षणीयः । यतो गुणानुराग एव मुख्यं लक्षणं वैचक्षण्यस्य, गुणानुरागश्च गुणवत्प्रेक्षणक्षण एवाऽक्षुण्णप्रमोदप्रकटनेनैव लक्ष्यः खलु दक्षैरक्षोदीयान् ।
नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी । गुणी च गुणरागी च विरलः सरलो जनः ॥ १ ॥
Jain Education International
-
तदद्य बन्धो ! कृतकृत्याः स्मोऽनभ्रवृष्टिन्यायेनोपपन्नगुणवतां भवतां सङ्गमेन । परं पीयूषेणेव तोषयितुमिच्छामः श्रवणौ भवन्निवासावासग्रामग्रामणी - ग्रामनामसंश्रवणेन । कुतो वा विपुलविपुलामण्डलमण्डलाखिलमण्डलमण्डलाखण्डलाम्बरान्मण्डलादत्र युष्मत्समागमः ।
अथ हंहो धीधनाः ! कै: कैः प्रशस्तशास्त्रशस्त्रैर्निहथ निखिलप्राणिप्रकरप्रेष्यताप्रदायिप्रसरद्विक्रमक्रमोद्रेकभाजं मोहराजम् ? दक्षिणा ! क्षमध्वे लक्षणे विचक्षणाक्षोदीयोऽक्षुण्णाक्षामक्षोदम् ? कस्मिन् वा ऐन्द्र १ - जैनेन्द्र २ - सिद्धहेमचन्द्र ३ - चान्द्र ४ - पाणिनि ५ - सारस्वत ६ - शाकटायन ७ - वामन ८विश्रान्त ९ - बुद्धिसागर १० - सरस्वतीकण्ठाभरण ११ - विद्याधर १२ - मुष्टिव्याकरण १३- कलापक १४भीमसेन १५-शिव १६- गौड १७ - नन्दि १८ - जयोत्पल १९ - जयदेवा २० - दिव्याकरणेष्वाम्नातिनो भवन्त: ? । कं कं वा साहित्यशर्करारसं स्वादं स्वादं परमानन्दपीयूषे निमग्ना भवच्चित्तवृत्तिः ? तथा आटीकन्ते भवन्तः सुघटनाटकपेटकाभ्यासपटुपाटवप्रकटनैः स्फुटं नाटयन्तः कीर्त्तिनटीं नाट्याचार्यतासण्टङ्कम् ? । कैः कैरलङ्कारवारैरलङ्कारवारैरिव अलं समलङ्कृतं भवद्वदनम् । आस्ते तावत्कर्कशतरतर्कवितर्कसम्पर्ककर्कशधीत्वम् ? केषु केषु वा जैन - जैमिनि - सुगत - कणभक्षसाङ्ख्याक्षपादादिमतसम्बन्धिनानातर्कग्रन्थसन्दर्भेष्वधीतिनो यूयम् ? केषु केषु चाऽपरेष्वपि निश्छद्मच्छन्दोज्योतिःप्रभृतिप्रशस्तशास्त्रप्रकरेष्वधीतिनो भवन्त इति ?
३८
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154