Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 39
________________ अवसरं वीक्ष्य वीणावादने समधिकायाऽभ्यासाय गन्धर्व एको मयाऽस्ति नियुक्तः शिक्षणाय प्रत्यहमायति स होराद्वयाय । भूयस्यो नवाः स्वरगतयः शिक्षिता मया नवाः कतिपदे ताला नवाश्च लयाः । किन्तु दिवसेष्वेषु पश्यामि तस्य गन्धर्वस्याऽन्यादृशमेव लयम् । अन्यादृशमेव तस्याऽऽकूतम् ॥ शङ्के यन्नाऽस्ति तस्य मनः पूतम् । स एवाऽवोचत् त्वदर्थे, “मया नेदमुचितमनुभूतम् यत् तव स यक्षो नाऽन्यं प्राप्य कञ्चन दूतम् प्रहितवांस्त्वत्कृते जीमूतम् ? मन्मते तु तादृशो जनः कापुरुषः । अहं तु चिन्तयामि भूरिशः कुबेरेण यथैव शापो मुखालिःसारितः स तूष्णीं निर्गतोऽलकाया गृहद्वारतः ? नैकः शब्दोऽपि प्रतिरोधे उच्चारितः ? त्वयाऽपि तादृशेन सह व्यर्थमियान् कालो हारितः । तत्स्थाने यद्यहमभविष्यम् कुबेरस्य विरोधे क्रान्तिमकरिष्यम् । अलकावासिनः सर्वान् संघटय्य, संघर्षसमितिं संकलय्य कुबेरस्य जीवनं नारकीयमारचयिष्यम्, यद् वा, सर्वोच्चन्यायालयेऽगमिष्यम् । मन्यसे चेद् वचनं मदीयम्, त्वया तदिदमेवाऽधुना करणीयम् यदेकं वर्षं तु ते पृथग् वासो जातः, एकोऽपरो वत्सरो यदि पार्थक्ये निर्यातः वर्षद्वयस्य पृथक्त्वे विवाहविच्छेदः संभवति न्यायव्यवस्थातः ।" + वर्षद्वयस्य पृथग् वासः (Judicial Seperation) विवाहविच्छेदस्य कृते मान्यो भवतीति न्यायव्यवस्थाऽत्र सङ्केतयितुमिष्यते । ३० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154