Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कलिकालसर्वज्ञ सूरीश्वराणां प्रशस्तं जीवनम्
| पूज्याचार्यदेवसूरिशिष्यः विजयहेमचन्द्रसूरिः
कलिकालसर्वज्ञेत्यप्रतिमबिरुदेन जगति समस्त विशेषतश्च जैनशासने प्रख्यातिमन्तः श्रीहेमचन्द्राभिधानाः सूरीश्वरा आर्हतशासनस्य बाढं प्रभावनाकारकाः सञ्जाताः ।
तेषां जीवनं कवनञ्च सर्वेषां कृते अत्याश्चर्यकरं विद्यते ।
पूर्वभवीयप्रबलसंस्कारसम्पत्तिं समादायैव ते हि पूज्या अत्रावतरितवन्तः, कथमन्यथा तादृशि लघुतमे वयसि मतिविभवविराजिताः, प्रबलवैराग्यभावनाभावितान्तःकरणा दीक्षाग्रहणाय समुत्सुकमानसाश्च स्युः ! जन्म दीक्षाग्रहणं च -
धंधुकाभिधाने ग्रामे मोढवणिग्जातीयगुणगौरवशालि-चच्च(चाचिग)कुले तद्धर्मपत्नी-रत्नकुक्षिणीश्रीचा(पा)हिणीजननीकक्षौ वि.संवति ११४५ तमे कार्तिकशक्लपूर्णिमायां समासादितजन्मान एते पज्यपुरुषा धृतचांगदेवपुण्याभिधाना बाल्यकालादेव विशिष्टक्षयोपशमशालिनो निजापूर्वबुद्धिचातुर्यचमत्कृतविचक्षणचेतस आसन् ।
समवयस्कसहाध्यायिबालकेषु सर्वथाऽनन्यसदृशा ह्येते दर्शनमात्रादेव सर्वेषां परमप्रीतिकरा भृशमाह्लादजनकाश्चाऽभूवन् ।
पूर्णतल्लगच्छीयश्रीदत्तसूरीश्वरपरम्परायाम् आचार्यश्रीगुणसेनसूरीश्वरपट्टाम्बरदिवाकराः श्रीदेवचन्द्रसूरीश्वराः समभूवन् । प्राकृतभाषायां गद्यपद्यमयश्रीशान्तिनाथचरित्ररचनाकारकास्ते हि पूज्या ग्रामानुग्राम विहरन्तो धर्मोपदेशदानेन भव्यजनान् प्रतिबोधयन्तश्च धंधुकाग्रामे पादौ अवधारितवन्तः ।
____ पूज्याचार्यभगवतां दर्शनमात्रेणैव सञ्जातापूर्वस्नेहसद्भावश्चांगदेवः शनैः शनैः परिचयं कुर्वन् गाढप्रेमास्पदं जातः ।
सूरीश्वरा यदा ततो विहारं कृतवन्तस्तदा बालश्चांगदेवो निज-जनकजनन्योरनुमतिं गृहीत्वा तैः सहैव विहारमकरोत् ।

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153