Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 29
________________ हृदयपूर्वकं प्रयतितम् । किन्तु अन्ततः स हताशो भूत्वाऽऽगतो गुरूसमीपे, निवेदितं च 'नैकोऽपि जनो निर्दोषः सर्वथा मया दृष्टोऽवाप्तो वा' । तदाकर्ण्य गुरुणा यद् विचारितं सम्भवेत् तदेवाऽऽचार्यो प्रतिपादयतीव - "सर्वोऽपि सापराधो हि, छलमन्विष्यते यदा ॥" केचन निरन्तरमात्मप्रशंसायां निमग्नाः सन्ति । केचित् तु परनिन्दामेव सर्वस्वं मन्यन्ते । कतिपये तु स्वश्लाघां परनिन्दां चैतदुभयमपि कृत्वैव परितोषमावहन्ति । बहुधा एतेषु त्रिषु विभागेष्वेव विभक्ता जना दृश्यन्ते । परन्तु येऽल्पप्राया जना नैकस्मिन्नपि विभागे समाविशन्ति, अर्थान्न निजप्रशंसामिच्छन्ति कुर्वन्ति शृण्वन्ति वा, नाऽप्यन्यनिन्दाकरण-श्रवणयोस्तेषां रुचिः, तेषां स्थितिः का भवति? । आचार्यस्तान् सत्पुरुषत्वेन संस्थापयन्नत्र विषये गदति "स्वप्रशंसेवाऽन्यनिन्दा, सतां लज्जाकरी खलु ॥" लोभः परमो दुर्गुणोऽस्माकम् । सकृदपि तद्वशं गताश्चेद् वयं गता एव । यथा यथा प्राप्तिर्वर्धते, तथा तथाऽधिकप्राप्तेरिच्छाऽपि वर्धत एव । सैव च लोभ इत्युच्यते । शास्त्रेष्वपि कथितमेतदित्थं- "जहा लाहो तहा लोहो, लाहा लोहो पवड्डइ" (यथा लाभस्तथा लोभो लाभाल्लोभः प्रवर्धते) । अन्यच्च लोभाक्रान्तो जनो लोभनिर्मितकार्पण्यदोषानुभावतः स्वीयवस्तुनोंऽशमेकमपि परस्मै न दत्ते न वा दर्शयत्यपि । मनुष्येषु तु प्रसिद्धैवेयं स्थितिः, किन्तु तिर्यग्योनिषु वनस्पतिष्वपि चैवं स्थितिः कदाचिद् दृष्टिगोचरा भवति तन्महते आश्चर्याय । लोभसञ्जया वनस्पतिरपि किं कुर्यादित्येतद् दर्शयत्याचार्योऽनया सूक्त्या "तरवोऽपि निधि प्राप्य पादौः प्रच्छादयन्ति यत् ॥" परमतत्त्वसाधकेन 'कबीर'नामकेन महासाधकेन स्वीये भाषानिबद्ध पदे गीतं "कहत कबीरा सुन मेरे गुनिया, आप मूए पीछु डुब गई दुनिया" । आचार्यस्तु ततोऽप्येकं पदमग्रे गत्वा कथयति - “अक्ष्णोः पिधाने पिहितं, ननु विश्वं चराचरम् ॥" व्रतिनां यतीनां कर्तव्यं किम् ? विवादो वा विवादोपशमो वा ? क्वचित् सम्पत्ति, कदाचिन्मठाश्रमादिकम्, कदाऽपि तु सत्ताधिकारमुत्तराधिकारितां वा निमित्तीकृत्य विवदमानान् साधून् दृष्ट्वा बाढं व्यथित आसीदाचार्यः । अथ च केचित्तु धर्ममेव पुरस्कृत्य विवदन्ते स्म । एवं कुर्वाणान् साधून् संन्यस्तांश्च समुद्दिश्य मार्मिकीमुक्तिमुक्तवानाचार्यः - "आद्यो धर्मो व्रतस्थानां विवादोपशमः खलु ॥" कियतीः सूक्तीलिखेयम् ?। एतादृश्यस्त्वपरिमिताः सूक्तयो निर्मिता ग्रथिता वाऽऽचार्यपादेन । अनयैव च रीत्या तेन व्यवहारबोधोऽपि प्रदत्तः । सूचितवांश्च सः, यत् व्यवहारज्ञानं - व्यवहारकौशलं लोकव्यवहारतः शास्त्राध्ययनतोऽप्यवाप्तुं शक्यमस्ति, अत एव व्यवहारबोधप्राप्तिर्न 'काव्य'प्रयोजनं भवितुमर्हति । अत एव चाऽऽचार्येण स्वीये काव्यानुशासने काव्यप्रयोजनप्रतिपादनावसरे "व्यवहारविदे" इति प्रयोजनं पूर्वसूरिभिरादृतमपि नैव स्वीकृतम् । इयमेव आचार्यस्य नवोन्मेषशालिनी प्रतिभेति मे मतिः । व्यवहारचतुराय श्रीहेमचन्द्राचार्याय नमो नमः ।। २४

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153