Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 142
________________ संस्कृतज्ञा अस्माकं देशे विद्यन्ते । तथा च संस्कृतभाषायाः प्रचारः प्रसारश्चाऽपि वयेत" । ततो नन्दनवनकल्पतरुसामयिकप्रकाशनविषये तेन कथितं – “अद्यावधि संस्कृतपत्रकारिताक्षेत्रे त्रिशताधिकानि संस्कृतसामयिकानि प्रकाशितानि । तेषां च सार्धशतं सामयिकानि त्विदानीमपि प्रकाश्यन्ते । मयाऽपि तेषां बहूनि विलोकितानि । किन्तु ततो द्वे एव सामयिके मम चित्तं हरतः स्म । एकं दिल्लीतः प्रकाश्यमानं दूर्वानाम अपरं चेदं नन्दनवनकल्पतरुः । यत उभयत्राऽपि आन्तं भाषाशुद्धिर्व्याकरणशुद्धिश्च भवति शिष्टं सुरुचिकरं चैव साहित्यं प्रकाश्यते । (अहं द्वयोरपि साद्यन्तं वाचनं करोमि ।) तत्राऽपि नन्दनवनकल्पतरुमहत्त्वमावहति यतः स विरक्तैर्जेनसाधुभिरेव प्रकाश्यते । अस्माकं देशे लक्षशः साधवः सन्ति किन्तु यावन्मे ज्ञानमस्ति तावन्न मया ज्ञातं यत् केऽपि साधवः संस्कृतसामयिकप्रकाशनं कुर्वन्तीति । अस्य प्रकाशनं निरन्तरं प्रचलत, वयं सदाऽपि सहयोगं दास्यामः" इत्यादि । ___डॉ. कुलीनचन्द्रयाज्ञिकमहोदयेन "संस्कृतसुभाषितानां रसदर्शनम्" इति विषये वदता कथितं - "सुभाषिता ह्यस्मान् जीवनं शोभनतयोत्तमतया च कथं जीव्येतेति सरलतया बोधयन्ति । एकैकं सुभाषितमपि बहूनि नैतिकमूल्यानि शिक्षयति । अस्माभिरद्याऽर्थमोहेनाऽऽधुनिकत्वभ्रमेण च संस्कृतभाषाशिक्षणं त्यक्तमतोऽद्य नैतिकमूल्यानां हास: पदे पदेऽनुभूयते'' इत्यादि । "जैनरामायणं" विषयीकृत्य वदता डॉ. विजयपण्ड्यामहोदयेन विविधकर्तृकाणां रामायणानां तुलनात्मकं विश्लेषणं कुर्वता विद्वत्तापूर्ण प्रवचनं प्रदत्तम् । कीर्तित्रयमुनयोऽपि विविधविषयेषु संस्कृतभाषया प्रवचनं कृतवन्न:* । ततो गुरुभगवतामाशीर्वचनोच्चारणपूर्वं सभा समाप्तिभजत् । सभायाश्च सुचारु सञ्चालनं विदुषा डॉ. वासुदेवपाठकमहोदयेन कृतम् । श्रीविज्यशीलचन्द्रसूरिः कीर्तित्रयी च आ.श्रीहेमचन्द्रसूरयः आ.श्रीसूर्योदयसूरयः F- आ. श्रीसूर्योदयसूरयः डॉ. विजयपण्ड्या , डॉ. कुलन्चन्द्रयाज्ञिकः। डॉ. कान्तिगोरः प्रा. राजेन्द्रमिश्रश्च * तानि प्रवचनान्यस्यामेव शाखायां यथातथं प्रकाशितानि सन्ति ।। १३७

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153