Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 140
________________ श्रीहेमचन्द्राचार्यचन्द्रकं प्राप्तास्त्रयो विद्वांसो वामतः । श्रीलाभशङ्करपुरोहितः श्रीहसुभाईयाज्ञिकः श्रीकनुभाईजानी च । 11100104 स्वीये आशीर्वाद-प्रवचने आचार्यैः श्रीविजयशीलचन्द्रसूरिभिर्हेमचन्द्राचार्यैः कृतानां विद्याकार्याणां परिचयः प्रदत्तः, ऐतिहासिकप्रमाणैश्च तेषां समन्वयवादिता-समत्वोदारता-नृपद्वयप्रतिबोधकत्वादिगुणा वर्णिताः । ततस्त्रयाणामपि विदुषां कृते शुभाशंसा प्रकटिता । प्रसङ्गेऽस्मिन् हेमचन्द्राचार्यविरचितं महादेवस्तोत्रं, सिद्धहेमलघुवृत्ति-उदाहरणकोशः, धर्मतत्त्वचिन्तनं (विजयशीलचन्द्रसूरिलिखित) चेत्याख्यानां त्रयाणां पुस्तकानां लोकार्पणं जातम् । ___ततः पूज्याचार्यश्रीविजयसूर्योदयसूरीश्वराणामाशीर्वचनैः सह प्रसङ्गोऽयं सम्पन्नो जातः । समग्रस्याऽपि समारोहस्य सञ्चालनं विदुषा डॉ. श्रीनिरञ्जनराज्यगुरुणा कृतम् । विश्रुतस्य कन्नडभाषीयोपन्यासकथालेखकस्य डॉ. एस्. एल्. भैरप्पवर्यस्य 'आवरण'नामकस्य कथाग्रन्थस्य संस्कृतानुवादार्थं २०१०तमवर्षीया अनुवाद-क्षेत्रीया केन्द्रसाहित्याकादमीप्रशस्तिः डॉ. विश्वासमहोदयेन प्राप्ताऽस्ति । डॉ. विश्वासमहोदयः सम्भाषणसन्देशसंस्कृतपत्रिकायाः पूर्वसम्पादकः, संस्कृतभारतीयसंस्थायाश्च पूर्णकालिकः सन्निष्ठकार्यकरश्चाऽपि । प्रशस्ति प्राप्तवन्तं डॉ. विश्वासमहोदयं सादरं सहाद चाऽभिनन्दति नन्दनवनकल्पतरुः ॥ १३५

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153