Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 144
________________ प्रवचनम् हृदयसन्तर्पकं वृत्तम् मुनिरकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आनन्दमयोऽयं दिवसः । सुदूरं स्थितोऽप्यहं तत्रत्यानि आनन्दपूर्णानि स्पन्दनानि अनुभवाम्येव । नन्दनवनकल्पतरोः पञ्चविंशतितमी शाखाऽद्य प्ररोहं प्राप्ताऽस्ति । अथ विदुषां विद्यार्थिनां च कृते छायाप्रदोऽयं कल्पतरुर्जातोऽस्ति । प्रतिशाखं तस्य छायाऽभिवर्धत एव । एतच्च हृदयसन्तर्पकं वृत्तम् । अस्मिश्च शाखाविस्तरणकार्ये लेखका वाचकाश्च सर्वेऽपि तेऽत्र विशेषेण धन्यवादार्हाः । १३९

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153