Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 151
________________ संस्कृतकाव्यसाहित्ये जैनमुनीनां प्रदानम् प्रवचनम् मुनित्रैलोक्यमण्डनविजयः अविदितगणाऽपि सत्कविभणितिः कर्णेषु वमति मधुधाराम् । अनधिगतपरिमलाऽपि हि हरति दशं मालतीमाला ।। संस्कृतकाव्यसाहित्ये जैनमुनीनां प्रदानं - विषयोऽयं यदा मया वक्तव्यार्थं चितः तदा मया सर्वथा ऊहितं नाऽऽसीद् यद् जैनमुनीनां काव्यसर्जनं तावद् विपुलतमं भविष्यति, तेषां साहित्यक्षेत्रे प्रदानं तावन्महत्त्वपूर्णं भविष्यति यत् तस्य सर्वाङ्गीणमूल्याङ्कनार्थं घण्टादशकमपि अपर्याप्तं भवेत्, किमुत निमेषदशकम् ? समस्या तु तदा महती अभासत यदा मया विषयस्य सज्जतार्थं ग्रन्थाः परिशीलिताः । तदा तत्र तावतां कवीनां नामानि अवलोकितानि, तावन्ति काव्यानि दृग्गोचरीभूतानि यत्-किं गणयेयम् ? किं विगणयेयम् ? तदेव स्पष्टं न जातम् । अन्ते अनायत्या मया विषयस्य सङ्कोच एव करणीयोऽभवत् । अत इदानीं तु अहं भवत्समक्षं केवलं जैनसाहित्यक्षेत्रस्य गौर्जरविद्याविश्वस्य च यः सुवर्णकालः परिगण्यते तस्य कालस्य तन्नाम वैक्रमीयद्वादश-त्रयोदशशताब्योः द्वित्राणां महाकवीनां काश्चन वार्ताः प्रस्तौमि । द्वादशशताब्द्याः कवीनां स्मरणावसरो भवति चेत् अवश्यन्तया स्मृतौ प्रथममेव समुपतिष्ठेत् कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्य पट्टशिष्यः आचार्यरामचन्द्रसूरिः। महाकविभवभूतिरिव स्वतन्त्रप्रतिभावान् १४६

Loading...

Page Navigation
1 ... 149 150 151 152 153