Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 153
________________ विलम्बन्ते / तेनाऽतिवृद्धं दिनम् / ततो दिनानि वर्धन्ते / रमणीयामिमां कल्पनां श्रुत्वा राजा तावान् प्रमुदितः यत् तस्य मुखात् स्वयमेव निसृतं - अन्ये तु कवयः, भवांस्तु कविकटारमल्लः / तदारभ्य रामचन्द्रसूरिः कविकटारमल्लत्वेनैव प्रसिद्धिं गतः / त्रयोदशशताब्द्याः तादृश एव महाकविः अमरचन्द्रसूरिः / सूक्ष्मस्याऽपि विषयस्य रमणीयवर्णने अस्य निपुणा मतिः / वस्तुत इदमेव कविकर्म / नीलकण्ठदीक्षितस्तु उक्तवान् एव यानेव शब्दान् वयमालपामः, यानेव चाऽर्थान् वयमुल्लिखामः / तैरेव विन्यासविदग्धरीत्या, सम्मोहयन्ते कवयो जगन्ति / / विधात्रा अस्याः सृष्टेः कणे कणे सौन्दर्यं निभृतम् / वयं वस्तूनि पश्यामः, कविस्तत्र निहितं सौन्दर्य पश्यति / अत एव सूक्ष्मोऽपि विषयः तस्य कृते रमणीयतां भजते / अमरचन्द्रसूरिः तादृश एव सौन्दर्यद्रष्टा कविः / बालभारते तु तेन सौन्दर्यस्य अवधिरेव प्रदर्शितः / तत्र प्रभातवर्णनप्रसङ्गे दधि मथ्नत्या आभीर्या वर्णने तेन श्लोकोऽयं लिखितः - दधिमथनविलोलल्लोलदृग्वेणिदम्भादयमदयमनङ्गो विश्वविश्वैकजेता / भवपरिभवकोपत्यक्तबाणः कृपाण श्रममिव दिवसादौ व्यक्तशक्तिर्व्यनक्ति / / दधि मथ्यते, नेत्रमाकृष्यते, आभीरी सर्वं विस्मृत्य कार्यलीना / तस्याः देहवल्लरी नेत्रेण साकं नृत्यति / तस्याः वेणी समुद्रोमिरिव उच्चलायमाना / कविः कथयति नेयं वेणी, अयं तु भुवनमोहकस्य मारस्य कृपाणः / नेदं वेण्याः नर्तनम्, अयं तु अभ्यासार्थं कृपाणश्रमः / विद्वद्भ्यः इयं कल्पना तावद् अरोचत यद् ‘वेणीकृपाण' इत्येव महाकवेरस्य परिचयो जातः / वसन्तविलासस्य कर्ता बालचन्द्रसूरिर्मम्मटविरचिते काव्यप्रकाशे सर्वप्रथमायाष्टीकाया रचयिता माणिक्यचन्द्रसूरिः / प्रबुद्धरौहिणेयस्य कर्ता रामभद्रसूरिः / कति नामानि गणयेयम् ? वस्तुतः तत्कालीनाः सर्वेऽपि विद्वांसो महाकवयः / किमधिकेन ? न्यायशास्त्रस्य कर्कशा अपि विषयास्तैश्चेतोहरैः श्लोकैः प्रस्तुतीकृताः / इयमेव तेषां सिद्धिः / अत एव तेषां शाश्वती कीतिः / महाकविना भर्तृहरिणा अस्याः शाश्वतायाः कीर्तेर्या शाश्वती स्तुतिः कृता, तामुद्धत्य अहं मम वक्तव्यं समापयामि जयन्ति ते सुकृतिनो, रससिद्धाः कवीश्वराः / नास्ति येषां यशःकाये जरामरणजं भयम् // जयतु संस्कृतम्, जयतु संस्कृतिश्च / 148

Loading...

Page Navigation
1 ... 151 152 153