Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अयं कविः । परम्परायाः समुचिते समादरेऽपि सर्वत्र नूतनस्य पथोऽन्वेषणे, नूतनानां मूल्यानां प्रस्थापने महाकवेरस्याऽभिरुचि: । स्वातन्त्र्यमहिमा तु महाकविना अमुना प्रत्येकं स्वकीयसर्जने पदे पदे गीतः । एकत्र तु तावल्लिखितं
=
स्म
स्वतन्त्रो देव ! भूयासं, सारमेयोऽपि वर्त्मनि । मा स्म भूवं परायत्तः, त्रिलोकस्याऽपि नायकः ॥
यदि त्रिलोकस्य अधिपतिर्भूत्वाऽपि मया कस्यचित् पारतन्त्र्यमेव स्वीकरणीयं तर्हि तादृशं त्रैलोक्याधिपतित्वमपि अहं तिरस्करोमि । चिन्त्यतां, कियती उत्कटा स्वातन्त्र्याभीप्सा भवेत् ? अथ च तावानेव दुर्धर्ष: स्वभाव:, तावती एव प्रचण्डप्रतिभा, तावती एव प्रकाण्डविद्वत्ता | शब्दशास्त्रे न्यायशास्त्रे काव्यशास्त्रे च समान एवाऽधिकारः । सर्वतन्त्रेषु बुद्धेरस्खलितः प्रचारः । सकलशास्त्रेषु निर्बाधा गतिः । तत एव विपुलं सर्जनम् । महाकवेरस्य सर्जनस्य मूल्याङ्कनार्थमिदमेव पर्याप्तं भवेद् यद् गुर्जरभूमौ गौर्जरैरेव विरचितानि यानि द्वाविंशतिः रूपकाणि अधुना समुपलभ्यन्ते तेषामर्धं तन्नाम एकादश तु रामचन्द्रसूरेरेव । निर्भय-भीमव्यायोगः, रघुविलासः, यादवाभ्युदयः, नलविलासः - एकैकमपि रूपकं भारतीयसाहित्यक्षेत्रे प्रथमपङ्क्तौ निवेशार्हम् । तत्र दृश्यमाने कल्पनावैभवे तु विद्वांसः अपि मुग्धा: । अत एव तदात्वे उच्यते
पञ्चप्रबन्धमिषपञ्चमुखानकेन, विद्वन्मनः सदसि नृत्यति यस्य कीर्तिः । विद्यात्रयीचणचमुम्बितकाव्यतन्द्रं, को वा न वेद सुकृती किल रामचन्द्रम्
?
को वा सज्जनः को वा विद्वज्जनः महाकवि रामचन्द्रं न वेत्ति ? अयं कल्पनावैभव एव महाकविममुं कविकटारमल्ल इति बिरुदं प्रापितवान् । रोचकः प्रसङ्गः । सिद्धराजजयसिंहः परिवारेण साकं उद्याने क्रीडार्थं गतः । तत्र महाकविरामचन्द्रः मिलितः । निदाघसमयः । न जाने नृपस्य मनसि किं समागतम् ? स सहसैव पृष्टवान् केनाऽतिवृद्धं दिनम् ? निदाघे दिनानि कुतो दीर्घाणि भवन्ति इति तदाशयः । रामचन्द्रसूरिः त्वरितमेव प्रत्युत्तरितवान् । कवेर्भावः काव्यम् । काव्यं कवेः स्वभावभूतं भवति । तत् तस्य प्रतिभातः उत्थितं भवति । अत एव तत्र न विलम्बः । महाकविरामचन्द्रः शीघ्रमेव उच्चरितवान्
देव ! श्रीगिरिदुर्गमल्ल ! भवतो दिग्जैत्रयात्रोत्सवे, धावद्धीरतुरङ्गनिष्ठुरखुरक्षुण्णक्षमामण्डलात् । वातोद्धूतरजोमिलत्सुरसरित्सञ्जातपङ्कस्थलीदूर्वाचुम्बनचञ्चुरा रविहयास्तेनाऽतिवृद्धं दिनम् ॥
राजन् ! भवान् यदा दिग्विजयार्थं प्रस्थितः, तदा भवतः सङ्ख्यातीतानाम् अश्वानां पदाघातैः इयं सकलाऽपि पृथ्वी क्षुण्णा जाता । तावान् रजः समूहः तत उत्थितो यत् स ऊर्ध्वं गत्वा आकाशगङ्गायाम् अपतत् । तत आकाशगङ्गा पङ्किला जाता, तत्र दूर्वा प्ररूढा । सूर्यस्य अश्वा अस्या दूर्वाया भक्षणार्थं
१४७
-

Page Navigation
1 ... 150 151 152 153