Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नन्दनवनकल्पतरोः पञ्चविंश्या: शाखाया लोकार्पणनिमित्तमायोजिता | संस्कृत-सभा
वार्ता
कीर्तित्रयी
संस्कृत-प्राकृतभाषामयस्याऽयनपत्रस्य पञ्चविंश्याः शाखायाः प्रकाशन-लोकार्पणादि निमित्तीकृत्याऽहमदाबादनगरे श्रीहठीसिंहवाटिकामध्ये २०६६तम-विक्रमाब्दस्य आश्विनशुक्लप्रतिपदि ८।१०।२०१० तमे दिनाङ्के शासनसम्राटश्रीविजयनेमिसूरीश्वरसन्तानीयानां पूज्याचार्यश्रीविजयसूर्योदयसूरीश्वर-श्रीविजयहेमचन्द्रसूरीश्वर-श्रीविजयशीलचन्द्रसूरीश्वराणां पुण्यसान्निध्ये एका संस्कृतसभा आयोजिता ।
अस्याः सभाया अध्यक्षत्वं सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य पूर्वकुलपतिना त्रिवेणीकवि प्रा. श्रीअभिराजराजेन्द्रमिश्रमहाभागेन निर्वोढम् । पत्तनस्थश्रीहेमचन्द्राचार्यविश्वविद्यालयस्य पूर्वकुलपतिः प्रा. कुलीनचन्द्रयाज्ञिकः, संस्कृतसाहित्यक्षेत्रे मूर्धन्यविद्वान् डॉ. विजयपण्ड्या डॉ. वासुदेवपाठकश्चाऽत्र सभायां वक्तार आसन् ।
__ अथाऽध्यक्षीयं प्रवचनं ददता प्रा. श्रीअभिराजराजेन्द्रमिश्रमहोदयेन मधुरस्वरेण संस्कृतभाषाया वैशिष्ट्यं वर्णयता कथितं - "भारतदेशस्य सर्वा अपि भाषाः संस्कृतप्रभवा एव । सर्वास्वपि भाषासु संस्कृतशब्दानामेवाऽऽधिक्यं वर्तते । यद्यपि संस्कृतभाषाऽऽधुनिके जगति दैनन्दिनव्यवहारभाषा भवितुं न प्रस्तुता तथाऽपि तस्या महत्त्वं सर्वथाऽन्यूनमेव । यतो लेटिन्-प्रमुखभाषावत् सा शास्त्रीय(classical) भाषा मृतभाषा वा नास्ति यस्या अद्य व्यवहार एव न स्यात् । अद्याऽपि सा व्यवहारपथे तथैव राजते यथा द्विसहस्रवर्षपूर्वमासीत् । तथा पश्यन्तु, द्विसहस्रवर्षेभ्यः पूर्वं या संस्कृतभाषा भाष्यमाणा लिख्यमाना पठ्यमाना वाऽऽसीत् सैवाऽद्याऽपि भाष्यते लिख्यते पठ्यते च । या संस्कृतभाषा काश्मीरदेशे भाष्यते लिख्यते पठ्यते च सैव केरले गूर्जरे असमदेशे चाऽपि भाष्यते लिख्यते पठ्यते च । अद्याऽप्यस्यां भाषायां सहस्रशो ग्रन्था विरच्यन्ते । गते शतके एव समग्रे भारते संस्कृतभाषायां प्रायस्त्रिशताधिकानि महाकाव्यानि विरचितानि, एषा च सङ्ख्याऽन्यासु भाषासु विरचितानां महाकाव्यानां सङ्ख्यातोऽत्यन्तमधिका । उदाहरणतया हिन्दीभाषया गते सम्पूर्णशतके केवलं पञ्चषाणि महाकाव्यानि विरचितानि । एवमेवाऽन्यान्या नूतनाः साहित्यप्रकारा अपि तथा प्रशिष्टमुत्तमं च साहित्यं चाऽपि संस्कृतभाषायामद्य विरच्यन्ते संस्कृतसाहित्यकारैः। अतः संस्कृतभाषाऽद्याऽपि जीवत्यस्माकं संस्कृतौ । आवश्यकताऽस्ति केवलं जागृतेः । सर्वेभ्योऽपि ममैका विज्ञप्तिरस्ति यद् जनसङ्ख्यागणनपत्रे प्रादेशिकभाषाऽऽङ्ग्लभाषा च यथा निर्दिश्यतेऽस्माभिस्तथैव संस्कृतभाषाया अपि निर्देशः कर्तव्यो येन सर्वकारीया अधिकारिणो जानीयर्यथेयन्तः
१३६

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153