Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कुमारपालस्य सत्कार्यैः प्रसन्नीभूताः सततं तं यथोचितं प्रेरणं ददति स्म ।
वैक्रमे १२२३ तमे संवति भृगुकच्छनगरे आम्रभट्टमन्त्रिणा निर्मापितस्य शकुनिकाविहाराख्यजिनालयस्य प्रतिष्ठा हेमचन्द्राचार्यैः कृता । तदवसरे च राजा सर्वेऽपि च मन्त्रि-सामन्तादय उपस्थिता आसन् । प्रतिष्ठामहोत्सवोऽपि चाऽऽम्रभट्टेनाऽत्यन्तमुल्लसितहृदयेन भूरिद्रव्यव्ययं कृत्वा कृतः । तदा तस्याऽतीवोत्साहमुल्लासं च दृष्ट्वा नगरवास्तव्या सिन्धुदेवी तस्योपरि कुपिता सती तं विविधोपद्रवैः पीडयितुमारब्धा । तेन स मृतप्रायो जातः । तस्य परिवारजना बहु चिन्तिता जाताः । तदा केनचित् हेमचन्द्राचार्येभ्यो वृत्तमेतत् कथयितुं सूचितम् । परिवारजनैराचार्येभ्यस्तन्निवेदितम् । शीघ्रमेव चाऽऽचार्यैस्तत्र समागत्य स्वयोगबलेन सा सिन्धुदेवी निगृहीता, नियन्त्रिताऽऽम्रभट्टं च मोक्तुमादिष्टा । साऽपि तेषां तेजोऽसहमाना सद्य एवाऽऽम्रभट्ट मुक्त्वा स्वस्थान गतवती । ततो यथोचितमुपचारेराम्रभट्टः स्वस्थो जातः।
___ तदनन्तरं, कुमारपालेन स्वनगरे केचन जिनालया निर्मापिता आसन् । तेषां प्रतिष्ठा वैक्रमे १२२८तमे संवति कृता । तत्र च शुभमुहूर्त-लग्नादिवेलां साधयितुं हेमचन्द्राचार्यैः स्वशिष्यो बालचन्द्राख्यो घटीयन्त्रं दत्त्वोपवेशित आसीत् । किन्तु गुरुद्रोहिणा तेन स्वीयमर्थं साधयितुं लग्नवेलातः पूर्वमेव कथितं यद् - 'लग्नवेला समागते'ति । ततश्चाऽऽचार्यैर्मन्त्रोच्चारणपूर्वं तत्क्षणमेव प्रतिष्ठा कारिता । तदैव च वटपद्रात् कानजीनामा श्रेष्ठी धावन्नेव समागतः प्रतिष्ठां च समर्थितां दृष्ट्वाऽऽचार्यपादयोविलग्य विलपितुं प्रवृत्तो यथा - 'प्रभो ! मे प्रतिमायाः प्रतिष्ठा नैव जाते'ति । तदा शीघ्रमेवाऽऽचायैर्बहिरागत्य नभसि दृष्टिपातः कृतो ज्ञातं च - 'लग्नवेला त्विदानीमेव समायाते'ति । 'बालचन्द्रेण च स्वार्थसाधनाय मृषैव कथितमासी'दिति । तैर्झटिति तं श्रेष्ठिनं सान्त्वयित्वा तत्प्रतिमायाः प्राणप्रतिष्ठा कृता कथितं च - 'अस्य श्रेष्ठिनः प्रतिमायाः प्रतिष्ठाऽत्यन्तं शुभलग्ने सञ्जाताऽस्त्यत एषा चिरकालस्थायिनी । पूर्वं कृता तु प्रतिष्ठा न तथा चिरकालस्थायिनी । मन्ये दैवेच्छेयमेवाऽस्ती'ति ।
एतादृशाः प्रसङ्गास्त्वेतेषां जीवने बहवः समायाताः किन्तु तैः सर्वदाऽपि समतया समाधिना स्वस्थतया चैव व्यवहृतम् । एष हि तेषामस्तित्वेन सहाऽऽत्मसाद्भूतानां योगाध्यात्मादीनां प्रभाव आसीत् ।
अथ च सिंहावलोकनेन तेषां जीवनं विलोक्येत तदा ज्ञायते यद् - निजं समग्रमपि जीवनं तैर्नित्यनूतनसाहित्यसृष्टौ श्रुतोपासनायां च व्ययितम् । सहैवाऽन्तर्मुखताया योगाध्यात्मादीनां च साधनाऽपि निरन्तरं प्रवर्तमानाऽऽसीत् । तेषां ध्येयमासीत् भवबीजाङ्करजनकानां रागादीनां नाशः । तदर्थमेव च जीवनस्य प्रतिक्षणं प्रयतितं तैः । तेन च तेषां जीवनस्य प्रत्येकं क्षणः शुद्धानन्देन सात्त्विकप्रसन्नतया चैव व्यतीतः । तेषां संयमे साधुजीवने नित्यक्रियासु च तादृशं शौर्यं पराक्रमश्चाऽऽसीत् यादृशं ह्यपूर्वरणरसेन शत्रुणा सह युध्यमानस्य शूरयोधस्य कस्यचित् स्यात् । तैर्हि स्वीयामोघवाचा प्रायः सार्धलक्षं जनाः जैनधर्ममङ्गीकारिताः । एतादृशलोकसङ्ख्याबलेन ते हि कञ्चन नूतनसम्प्रदायं स्वकीयं गच्छं वा संस्थापयितुं समर्था आसन् । किन्तु तदर्थमावश्यकी महत्त्वाकाङ्क्षा तेषां नाऽऽसीत् नाऽपि च क्षुद्रता तुच्छता च ।

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153