Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 119
________________ किन्तु तान् बालकान् प्रेम्णा वात्सल्येन चैव बोधयामि । अस्माकं शालायां कदाचिदपि कठोरवाण्यास्तुच्छकारस्योच्चैराक्रोशस्य क्रोधस्य वा प्रयोगो नैव भवति, केवलं प्रेम्णा, धैर्येण, प्रशान्त्या चैव तैः सह व्यवहियते । प्रेम्णा किं किं न भवति ? चेतन ! किं कथयामि ? यदा 'अजाहरा'तीर्थमध्ये महोत्सवः प्रचलित आसीत् तदाऽस्माकं समक्षमैतैर्बालकैर्नृत्यं कृतम् । यथा हस्ताङ्गल्या स्थाली वर्तुलाकारेण भ्रामयन्ति जनास्तथैकेन बालकेन पादस्योपरि त्रिपद्या भ्रमणं कारितम् । एवं मन्दबुद्धिजना अपि विविधां प्रवृत्तिं कुर्वन्ति । सर्वेषां जनानामात्मनि प्रचण्डशक्तिरस्त्येव केवलं तां शक्तिमदघाटयितमेव केनाऽपि प्रयत्नः करणीयः स्यात् । पितृभ्यां "ये बालका मन्दबुद्धयो मूर्खाश्चे"ति उपेक्षितास्त एव बालकाः कस्यचिदपि प्रेम्णः साहाय्येन स्वजीवनं निर्वोढुं शक्ता जाताः । अद्य गृहे गृहे क्लेशो वर्तते । न केऽपि सुखिनः सन्ति । अत्राऽपि कारणमस्ति - प्रेम्णो वात्सल्यस्य चाऽभावः । यदि सर्वेऽप्यन्येषामपराधं विस्मृत्य चित्तस्थितमुपेक्षादिकं विहाय प्रेमपूर्वकं व्यवहरेयुस्तहि सर्वत्र सुखं शान्तिश्च प्रसरेयुः । सर्वेऽपि जनाः प्रेमाऽभिलषन्ति, मां प्रेम्णाऽऽह्वयेयुः - इति सर्वेऽपीच्छन्ति, किन्तु न केऽपि प्रेम दातुमन्येभ्य इच्छन्ति । बन्धो ! अद्य केचित् परम्परावादिनस्तु प्रेमशब्दं निशम्य द्विषन्त्युद्विजन्ति च । “महत् पापं कृतं खलु" इति मनसिकृत्य प्रेमशब्दमुपेक्षन्ते । एतैर्जनैः प्रेमशब्दस्य महत्तां न्यूनीकृत्यैष शब्दोऽत्यन्ततुच्छशब्दरूपेण प्रस्थापितः, किन्त्वेतत्तु निश्चितमस्ति यत्, प्रेम्णो वात्सल्यस्य च विस्तारं विना न केषाञ्चिदपि विकासः शक्योऽस्ति । प्रेम एवाऽऽत्मिकं विकासस्य प्रथमं सोपानमस्ति । त्वं जानास्येव प्रत्येकं तीर्थङ्करः पूर्वस्मिन् तृतीये भवे - शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखीभवतु लोकः ॥ इति भावनयैव तीर्थङ्करनामकर्मोपार्जयति । 'शिवमस्तु सर्वजगतः' नाम प्रेम्णो नितरां विकासः । बुद्ध-कृष्ण-राम-ईशुख्रिस्त-अल्लाह-इति ये येऽन्येऽपि महापुरुषा जातास्ते ते सर्वेऽपि प्रेम्णो विस्तारेणैव महापुरुषत्वमवाप्ताः - इति न कदापि विस्मर्तव्यम् । अन्ते, त्वमपि तव चित्ते स्थितं प्रेमोज्जागरय । प्रथमं गृहजनान् पश्चात् क्रमशो मित्रजनान्, प्रातिवेश्मिकान, नगरजनान् च प्रेम कृत्वाऽऽत्मिकविकासस्य मार्गे उन्नतिं साधय - इत्यभिलाषा । ११४

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153